________________
(२४) कूर्मावतारे मन्दरार्णवमन्थनं चतुर्विशं सूत्रम् ॥
-
विश्वकर्मोवाच
कल्पान्ते रत्नजातं यद् श्रीधेनुरमृतादिकम् । अन्योपस्करजातानि क्षीराब्धौ स्थापितानि तु ॥ १॥ याचमाना: समस्तास्तु सुरासुरनरोरगाः।
ददस्य भो विभो सर्व स्थापितं विष्णुना च यत् ॥२॥ इन्द्र उवाच
काष्ठे चाग्निस्तिले तैलं क्षीरमध्ये यथा घृतम् ।। उद्धरिष्यामि तान् सर्वान् क्षीरान्धित उपस्करान् ॥ ३॥ चकुस्ते मन्थनारम्भं सुरासुरनरोरगाः। मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाऽथ वासुकिम् ॥४॥ उद्धरिष्यति कस्तत्र क्षीरार्णवे तु मन्दरम् । गतास्ते विष्णुपार्श्वे तु सुरासुरनरोरगाः ॥५॥ चतुर्लक्षसहस्रादि शतान्ताम्दे कृते गते । फाल्गुने कृष्णपक्षे च द्वितीयायां तिथौ तथा ॥६॥ मुहूर्ते कार्मुके चैव हस्तान्ते घटिकाद्वयम् । कूर्मावतारो मेदिन्या मुहूर्ते तत्र चाभवत् ॥ ७॥ तले तु कूर्मरूपेण हेमकूटनिभं गिरिम् । मन्दरं धारयिष्यामि छमूतार्थेऽपराजित ॥ ८॥ पीतवर्णो महादिव्यो दृश्यतेऽथानुवर्तुलम् । हारिदकश्वेतपादैज्योतिदृष्टोऽथ निर्मलै ! ॥९॥ शैलेन्द्रस्योत्तरे पावें क्षीरोदो नाम सागरः। प्रारब्धं मन्थनं तत्र सुरासुरनरोरगैः ॥ १०॥ मन्दरं मन्थनं कृत्वा नेत्रं कृत्वा तु वासुकिम् । एकतश्च सुराः सर्वे बलिमेकत्र संस्थिताः ॥ १ ११ ॥ क्षीरार्णवे मथ्यमाने सफेनोर्मिमहोत्कटे । समुद्भूतानि रत्नानि गुणतेजोमयानि च ॥ १२॥ मौक्तिकं वनवैडूयें पनरागश्च नीलकम् । हिरण्याद्यष्टलोहानि मध्यमाने तदुद्भवः ॥ १३ ॥ तदोद्भता कामधेनुघृतदध्युद्भवस्ततः । क्षीरं च गोमयं मूत्रं पञ्चगव्यं प्रकीर्तितम् ॥ १४ ॥