________________
अपराजितपृच्छा स्थललता फेनवर्णा ग्रन्थावर्णतकम् दोद्भवा ? । यथा अग्न कुलावर्त भंगात् पुरतो वनमालिका ! ॥१५॥ हतो महासुरः शङ्खो हदैस्ततस्तदा । आसनं कृतमुत्सने ब्रह्मणश्चेव नन्दतः ॥ १६॥ पटहाद्या अवाद्यन्त वेदे प्राप्तऽनु पञ्चमम् । महोत्सवे ब्रह्मलोके विष्णुलोके तथैव च ॥ १७ ॥ धर्मः प्रस्थापितो लोके सत्यं मानं च भूतले । लक्ष्म्यायुष्का नराश्चैवमक्लेशा दृढयौवनाः ॥ १८॥ एकच्छत्रं नृपो राज्यं प्राप्तवान् वेदसंगतो।। चक्रवर्तित्व विशेयो शिवमटं सुदर्शनम् ॥ १९ ॥ देवाग्निगुरुपूजा च सतीसत्यं तथोत्तमम् । अग्राह्यं च प्रजादण्डं अद्वास्थता कृषि वेश्मता ? ॥ २० ॥ न शोकदुःखदुर्भिक्ष न चौराश्चाभवंस्तदा । धर्मेण पालयन्धात्रीमाशां चक्रे च मेदिनी ॥ २१ ॥ ईप्सितोदकं च मेघात् सर्वसस्या च मेदिनी। लक्षात्परेऽनल्पधना अतिरूपा नराः स्त्रियः ॥ २२ ॥ कामिन्य ऋतुगम्याश्च ह्यायुष्काः कान्तिभिर्युताः। लोका; शास्त्रविशेषक्षा अग्निहोत्रं गृहेगृहे ॥ २३ ॥ त्रिदशातिथिपूजा च नित्यमेव प्रतिगृहम् । न विषं नैव दुःस्थानं गृहे तु धनधान्यकम् ॥ २४ ॥ भुअन्ते काञ्चने पात्रे ददते नास्ति गणता ?। सन्तुष्टाः सर्वलोकास्तु धनधान्यैश्च काञ्चनैः ॥ २५ ॥ ईप्सितं तु गवां क्षीरं क्षीरे सर्पिस्तथाधिकम् । इच्छारसश्चक्षुदण्डे षीधुपानं घटैस्तथा ॥ २६ ॥ त्रिलक्षाब्दं मीनरूपो विष्णुः पति सागरम् । पुनर्जन्म करिष्यामि उद्धरिष्येऽमृतं यतः ॥ २७ ॥. इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
प्रथमहरि-मत्स्यावताराधिकारो नाम त्रयोविंशं सूत्रम् ।।