________________
(२३) प्रथमहरि - मत्स्यावतारों नाम त्रयोविंशं सूत्रम् ॥
अपराजित उवाच
मत्स्यादिकावतारांश्च विष्णुरूपसमुद्भवान् । कथयस्व प्रसादेन ज्ञानदाल्हादकारकान् ॥ १ ॥ यत्स्मृतौ पापमुक्तिः स्यात् संसारभयनाशनम् । छिद्यन्ते सर्वविघ्नाश्च स्वर्गादिभोगसाधनम् ॥ २॥ विश्वकर्मोवाच
सर्वतीर्थभत्रं पुण्यं यस्य तु स्मरणे ननु । सर्वदेवमयं दृष्ट्वा सर्वयज्ञफलं भवेत् ॥ ३ ॥ शृणु स्वं च महानन्दं विष्णोर्जन्मरहस्यकम् । दशावतारजननं पठितं पापनाशनम् ॥ ४ ॥ तदहं कथयिष्यामि प्रादुर्भावं च वैष्णवम् । पठन्ति प्रयता भक्त्या यास्यन्ति परमां गतिम् ॥ ५ ॥ मत्स्यः कूर्मों वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ॥ ६ ॥
तस्मिनेकार्णवे घोरे नष्टे स्थावरजङ्गमे । चन्द्रार्कपवने नष्टे ज्योतिषि प्रलयं गते ॥ ७ ॥
एवं जाते तदा काले ध्यानयुक्तः पितामहः । संभूतो दानवः शङ्खो हृतवान् वेदमर्णवे ॥ ८ ॥ गतश्च विष्णुपार्श्वे च क्षीराब्धौ च पितामहः । महासुरोऽनन्तरूपो वेदान् हृत्वा गतोऽर्णवे ॥ ९ ॥
कृतेऽलक्षसहस्रशताव्देषु गतेषु च । शताब्दान्ते तथा ख्याते माघे कृष्णप्रतिपदि ॥ १० ॥ पुष्यान्ते च मुहूर्ते च मनुर्नाम शुभप्रदः । महामनो भविष्यामि सहस्रयोजनायतः ॥ ११ ॥ घनवन्नीलवर्णश्च रताक्षश्च महोत्कटः । भृकुटस्फुरदशनः कृत्वा कोपं जनार्दनः ॥ १२॥
क्रीडन्तमब्धिमध्यस्थं निहितां च कूपकर्तरि । स्यात्कलित लग्नाम्बु पद्म पुष्पोद्भवमालिका ? १३ ॥
मत्स्यपुच्छाच निहतस्तदा चोच्छलिता छटा छोड्न धाराकुलोत्तरं भगं सुरा कुलावर्तपदम् ? ॥ १४ ॥