________________
५३
अपराजित पृच्छा
- अभ्वी गंजा शुकी शृङ्गी वृक्ष्यंषु सरली तथा । स्थालिकां शालिध्वानं च तृणीव लतिकोद्भवाः ? ॥ १५ ॥ शृङ्गी नखी मीन क्रोंचा पद्मान्तादिकसम्भवाः । एवं काश्यप संभूताः सृष्टिजीवा अनेकधा ॥ १६ ॥ कृमिकीटपतङ्गाश्च व्यन्तराश्चोरगादयः । भूमिबीजोदकाद्यैश्च सम्भूता जीवयोनयः ॥ १७ ॥ भूम्युवासे समुद्भूते संयोगे तेजसस्तथा । उदके सर्वबीजानि रूपतः सम्भवन्ति च ॥ १८ ॥ केचिश्व काश्यपोत्पन्नाः केचित्पातालसम्भवाः । केचिद् भूम्युद्भवास्त्वेवं त्रिविधः सृष्टिसम्भवः ॥ १९ ॥ चतुर्विधास्तथा चैवं स्वेदाण्डोद्भिज्जरायुजाः । चतुर्विधभूतग्रामे जीवयोनिरनेकधा ॥ २० ॥
इति सूत्रसन्तान गुणकीर्ति प्रकाशप्रोक्तृ श्री भुवनदेवाचार्योक्ता पराजित पृच्छायां पञ्चलिङ्गोद्भव काश्यपसृष्टयुद्धवाधिकारो नाम द्वात्रिंशं सूत्रम् ॥