________________
(२७) रामावतारो नाम सप्तविंशं सूत्रम् ॥
विश्वकर्मोवाच
त्रेता चान्द आधे च ह्याषाढे कृष्णषष्ठिका | नाम प्रोक्तं पुण्डरीकं धनिष्ठान्ते मुहूर्तके ॥ १ ॥
जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः । क्षत्रियांश्च वधिष्याभि पृथ्वी निःक्षत्रयी कृता ॥ २ ॥
एकविंशतिवारांश्च समुद्रान्ता च मेदिनी । तेन दत्ता द्विजवरे कश्यपे च त्वकण्टका ॥ ३ ॥
विप्रयुक्ताश्च राजेन्द्रा उत्पन्ना च वसुन्धरा । समुद्रः शाम्यते येन आसिदू द्वादश योजनैः ॥ ४ ॥ प्रवृत्ताश्चैव देशाश्च कोङ्कणाश्च चतुर्दिशम् । क्षत्रमुत्सादयिष्यामि सभृत्यषलवाहनम् ॥ ५ ॥ जमदग्निसुतो रामः पुनर्जन्म करिष्यति । तेनाहं प्रहरिष्याम्ययोभ्यायां सप्तमो हरिः ॥ ६ ॥
g परशुरामं च हरिहन्ति च सप्तमः । सन्धौ च समनुप्राप्ते त्रेताया द्वापरस्य च ॥ ७ ॥ रामो दाशरथिर्भूत्वा कौशल्यानन्दवर्धनः । विश्वामित्रयज्ञधुर्यस्ताडकां राक्षसी हस्त्रा जमदग्निसुतं जित्वा धनुर्भङ्गे सीतापतिः ॥ ८ ॥ घमवासं करिष्यामि सीतालक्ष्मणसंयुतः । चित्रकूटे तथा सीता पर्ययुक्ता न लक्षणैः ? ॥ ९ ॥
रामगिर्याश्रमे प्राप्ते तत्र वै दण्डकावने । लङ्केशेन हृता सीता कपडैर्मृगरूपतः ॥ १० ॥ तो मृगश्च सीतार्थे त्रिशिराः खरदूषणौ । वेपमाना शूर्पणखा धृतासु राक्षसी कृता ॥ ११ ॥
सुग्रीवस्य समक्षं च इतो वाली महाबलः । तैश्वापि वानरैः सार्धं करिष्यामि यथा सुखम् ॥ १२ ॥
दशयोजनविस्तीर्णमायतं शतयोजनैः । सेतुबन्धनमावृत्तं जले शैलसमाकुलम् ॥ १३ ॥
हत्वा तु रावणं घोरं सभूत्यं देशकण्टकम् | विभीषणाय दास्यामि राज्य निहतकण्टकम् ॥ १४ ॥