________________
(१९) तिथिमासर्तुकालसंवत्सरो नामैकोनविंशं सूत्रम् ॥
अपराजित उवाच
कालसख्या कथं देव ह्यष्टयामादिकं तथा । तिथिसंवत्सरायं च कथयस्व प्रसादतः ॥१॥ संवत्सराभिधानानि पृथक् चैवं प्रमाणतः।
कथयस्व प्रसादेन विश्वेश जगतांपते ॥२॥ विश्वकर्मोवाच
अहोरात्रादित: सङ्ख्या दृष्टे सूर्योदये मता। अष्टौ यामाश्च सम्प्रोक्ता अहोरात्रसमुद्भवाः ॥ ३ ॥ जयो विजय आख्यातो महाशङ्कश्च शङ्ककः । उदयाद्धि समाख्याताश्चत्वारश्च निशापतेः ॥ ४॥ अहोरात्रैस्तिथे म प्रोक्तं नन्दादिपञ्चकम् । नन्दा भद्रा जया रिक्ता पूर्णा वै पञ्चमी स्मृता ॥५॥ पञ्च पञ्च पुनः पञ्च मासाधे तिथयस्तथा । तिथिभिः पञ्चदशभिः पक्षो मासो द्विपक्षतः ॥ ६॥ आदो नन्दादिकश्चैवं काल: स्याद् दशपञ्चभिः । नन्दा प्रतिपदा शेया द्वितीया भद्रिका मता ॥ ७ ॥ तृतीया च जया रिक्ता चतुर्थी सम्प्रकीर्तिता। तिथिः पूर्णा पञ्चमी स्यादेवं हि तिथयो मताः ॥ ८॥ षष्ठी च सप्तमी चैव ाष्टमी नवमी तथा। दशम्येकादशी चैव द्वादशी च त्रयोदशी ॥९॥ चतुर्दशी पौर्णमासी तिथयश्चन्द्रसम्भवाः । चन्द्रस्तु षोडशकलस्तिथयो दशपञ्चभिः ॥ १०॥ शशिनी शान्तिनी चैव लक्ष्मिणी कामिनी तथा । पुष्पिणी च शुभा शान्ता चाल्हादा कुमुदा तथा ॥ ११ ॥ शस्याशिनी मानिनी च तथा विद्याविशोधिनी।। महिषी द्वीपिनी सौम्या चामृता षोडशी तथा ॥ १२ ॥ सितपक्षे वर्द्धते च क्षीयते कृष्णपक्षके । पूर्णिमा पूर्णचन्द्रेमावास्या क्षीणविधौ स्मृता ॥ १३ ॥ पूर्णमासे उभौपक्षावथ मासाभिधेयकम् । कार्तिको मार्गशीर्षश्च पौषो माघोऽथ फाल्गुनः ॥ १४ ॥