________________
अपराजितपृच्छा चैत्रो वैशाखज्येष्ठौ च ह्याषाढश्चैव श्रावणः । भाद्रपद आश्विनश्च मासा एते प्रकीर्तिताः ॥ १५॥ कार्तिकाद्या द्वादशस्युर्याभ्यां द्वाभ्यामृतुद्भवः । अभिधानानि कथये षड्ऋतूनामनुक्रमात् ॥१६॥ घसन्तग्रीष्मौ वर्षाश्च शरद्धेमन्त एव च | शिशिरश्च षड् ऋतवश्चैत्रिकादिद्विमासकाः ॥ १७ ॥ द्वौ ऋतू भवतः कालः शीतोष्णवार्षिकात्मकः । कार्तिकादिभवः शीतो ग्रीष्मः फाल्गुनतः स्मृतः ॥ १८ ॥ तथाषाढादितः प्रावृट् सर्वबीजहितात्मिका।। एवं स्यात्रिविधः कालः शीतोष्णप्रावृडात्मकः ॥ १९ ॥ कालत्रयं षड्तबो माससङ्ख्यातु द्वादश । चतुर्विशति पक्षाश्च षष्ठ्युत्तरशतत्रयम् ॥ २० ॥ दिनानि स्युस्तथा चैवं वर्ष चैव प्रवर्तते । इत्यादियुक्तियोगेन प्रोक्तः संवत्सराभिधः ॥ २१ ।। संवत्सराभिधानानि षष्टिः स्युः प्रभवादितः।। प्रभवो विभवश्चैव शुक्लो मोदः प्रजापतिः ॥ २२ ॥ अङ्गिराः श्रीमुखो भावो युवा धाता तथेश्वरः । बहुधान्यः प्रमाथी च विक्रमो वृष एव च ॥ २३ ॥ चित्रभानुः सुभानुश्च तारणः पार्थिवो व्ययः। सर्वजित् सर्वधारी च विरोधी विकृतिः खरः ॥ २४ ॥ नन्दनो विजयो जयो मन्मथो दुर्मुखस्तथा । हेमलम्बो विलम्बश्च विकारी शार्वरी तथा ॥ २५ ॥ प्लवश्च शुभकश्चैव शोभन: क्रोधनस्तथा।। विश्वावसुः पराभवः प्लवङ्गः कीलको मतः ॥ २६ ॥ सौम्यः साधारणश्चैव तथैवं च विरोधकृत् । परिधावी प्रमादी च ह्यानन्दो राक्षसोऽनलः ॥ २७ ॥ पिङ्गलः कालयुक्तश्च सिद्धार्थों रौद्रदुर्मती । दुन्दुभी रुधिरोद्गारी रक्काक्षी क्रोधनः क्षयः ॥ २८॥ इत्थं संवत्सराणां च षष्टीभेदाः प्रकीर्तिताः । ब्रह्मसृष्टिविंशतिश्च प्रभवादि व्ययान्तगा ॥ २९॥ विष्णोः सर्वजिदाद्याश्च विंशतिश्चापराभवम् । प्लवङ्गादि क्षयान्तं च तथास्याद्रविंशतिः ॥ ३०॥ गुणा यथाभिधानं च शस्ताशस्ते विदुर्बुधाः।