________________
अपराजितपृच्छा योजनरकादशभी राहोश्च निमिषे गातः। केतुर्भानो:समन्ताश्च भ्रमते दक्षिणावृतम् ॥ १५ ॥ आमध्याह्नमुदयतो ह्यष्टधा च दिनार्धकम् । चत्वारिंशत्त्वेकहीनं सहस्राण्याद्यसङक्रमे ॥ १६ ॥ तवं च षविंशत्या त्वेकत्रिंशत् सदा क्रमः । चतुर्विंशतिरूचे तु दशपञ्च तथोत्तरे ॥ १७ ॥ अग्रे गतिश्च दशभिः पञ्चभिर्मध्यमाश्रिते। त्रिभिः सहस्रमध्याहे योजनेतिमादिशेत् ॥१८॥ पूर्वा च गति ज्ञात्वा विपरीता परेऽहनि । एवं क्रमैः युक्तियोगो ग्रहाणां च गतिस्तथा ॥ १९ ॥ भुक्तिमानं गतिश्चैवं सूर्यादिग्रहमण्डले । प्रयुक्तश्च धुवो मध्ये भ्रमते दक्षिणावृतम् ॥ २०॥ प्रदक्षिणीकृते तस्मिनहोरात्रमितिस्मृतम् । प्रदक्षिणार्द्धमावृत्ते दृष्टे सूर्ये तथा दिवि ॥ २१ ॥ तथा रात्रिरथाख्याता सूर्ये चादृष्टतां गते । तस्यैव षष्टिकांशस्तु प्रोच्यते घटिकाभिधा ॥ २२ ॥ ताभिर्दिनं षष्टिभिश्च मासस्त्रिंशद्दिनैर्भवेत् । घटिकाषष्टिपलैनिमेष: पञ्चदशपलैः ॥ २३ ॥ निमेषषोडशांशस्तु कला कलार्ध लम्बकः । लम्बकाधै लम्बकाक्ष्यो लम्बकार्धे पादेखिभिः ? ॥ २४ ॥ उभी करगृह्येत अलम्बं त्रुटिशब्दतः ? । द्वे घट्यौ च मुहूर्त स्थात् लग्नं पञ्चघटीभवम् ॥ २५ ॥ सूर्यादि सप्तवाराश्च क्रमेण तिथयस्तथा । एवं प्रोक्तं मुहूर्तादि ह्यहोरात्रादिमध्यतः ॥ २६ ॥ क्रमयुक्तिर्विधातव्या कालसङ्ख्यामतः परम् ।
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
ग्रहगतिमान मुहूर्तादिप्रमाणनिणयाधिकारेऽष्टादश सूत्रम् ॥