________________
(१८) ग्रहगतिमानमुहूर्तादिप्रमाणमष्टादश सूत्रम् ॥
अपराजित उवाच -
कथितानि मण्डलानि ध्रुवादेर्ग्रहसङ्ख्यया । अतस्तेषां पुनस्त्वेवं बिम्बमानं निबोधय ॥ १ ॥ बिम्बमानगतिञ्चैव ग्रहाद्याः क्रमयोगतः । भ्रमन्ति दक्षिणावर्ते ह्यध्वनि स्वप्रमाणतः ॥ २ ॥ तिथिसङ्ख्याप्रमाणं च पक्षमासौ तथैव च । ऋतुकालं वत्सरांश्च कथयस्व समासतः ॥ ३ ॥ विश्वकर्मोवाच
बिम्बमानं ततस्तात शृणुचैकाग्रमानसः । अनुक्रमेण कथये सूर्यादीनामथोऽधुना ॥ ४॥
सूर्यादीनां ग्रहाणां तु कथ्यन्ते बिंबकानि तु । वृत्तव्यासौ बिम्बमाने कथयामि समासतः ॥ ५ ॥ षट्सहस्रपञ्चशतयोजनैः स्याच्च विस्तरः । सूर्यबिम्बप्रमाणं तु विद्युत्कोटिसमप्रभम् ॥ ६॥ चतुर्भिश्च सहस्राणां यष्टाशीत्या च योजनैः । सोमबिंप्रमाणं तत् सुधातेजः समुद्भवम् ॥ ७॥ भौमस्य बिम्बमानं तु पृथु योजनविंशतिः । बुधस्य बिम्बमानं च विस्तृतं शतयोजनैः ॥ ८ ॥
द्वाचत्वारिंशच्च सार्धं गुरुबिम्बं प्रमाणतः । पञ्चसप्ततिः शुक्रस्य शतार्थे पञ्च वै शनैः ॥ ९ ॥
अष्टसहस्रयोजनप्रमाणं राहुमण्डलम् ।
तोश्च भौमतुल्यं स्यात् कथितं च प्रमाणतः ॥ १० ॥ गतिक्रमं च वक्ष्यामि ध्रुवमेकं प्रदक्षिणम् । योजनैश्च गतिस्त्वेवं गम्यते च प्रदक्षिणम् ॥ ११ ॥ निमिषे द्विशतं भानुः ग्लौः सार्धद्विसहस्रकम् । श्रयस्त्रिंशदधिकशतयोजनै भौमगतिः ॥ १२ ॥ बुधश्च सूर्यमानेन भ्रमति ध्रुवदक्षिणम् । गुरुश्च क्रमतः चैव योजनैर्दशपञ्चभिः ॥ १३ ॥ शुक्रसूर्यगतिश्चैव द्विशतं निमिषान्तरे । सप्तयोजन त्रिभागं निमिषान्तु शनैश्चरः ॥ १४ ॥
६ अ.