________________
३३
शिवशक्तिब्रह्मज्ञानं चतुर्दशं सूत्रम् ॥ एषा सा परमा शक्तिरिच्छाझानक्रियात्मिका । पृथगेकाष्टकैर्युक्ता ह्यज्ञानां ज्ञानदा स्मृता ॥ १५ ॥ अनेकभाविक कर्म दग्धबीजमिवाम्भसि । भविष्यदपि संरुद्धं शानकं भुवि गोचरम् ॥ १६ ॥ सहज भोगजं कर्मानर्गलं भविष्यत्तथा। शक्तित्रयविभागेन दद्यात् सर्वे शुभाशुभम् ॥ १७ ॥ कारणे च क्रियाशक्तिरिच्छाशक्तिः प्रवर्तने । शानशक्तिस्तथाचारे संचरेत्सचराचरम् ॥ १८ ॥ सर्वाङ्गसन्धिसंचारे नखकेशाग्रमध्यके । व्यापिनी संस्थिता देहे रेणुमात्रस्वरूपिणी ॥ १९ ॥ बीजरूपा तु सा देवी जगन्माता व्यवस्थिता। तां ज्ञात्वा मुच्यते पाशैस्सर्वक्षस्तु नये भवेत् ॥ २० ॥ क्रियेच्छयोस्तथा ज्ञाने त्रिकरूपे व्यवस्थिता । प्रातर्यस्तु प्रबुद्धात्मा विन्द्यात् शक्तिपति तु सः ॥ २१ ॥ एवं शारीरिक चक्र शक्तित्रयसमन्वितम् । शक्यन्ते च शिवं विद्याद्यो दशान्ते कलौर्विना ? ॥ २२ ॥ एकः शिवः परं ब्रह्मपदमेव निराधयम् । पश्येत् संसारबीजं यो रम्भास्तम्भपुटं यथा ॥ २३ ॥ यस्य शिवशक्तिशानं तस्य मुक्तिर्विधीयते । शक्तित्रयविमुक्तस्य भुक्तिर्मुक्तिविमोचनम् ॥ २४ ॥ दर्पणेषु यथा छाया विण्डः पिण्डाकृतिर्भवेत् । तथा सर्वगतः शम्भुदृश्यते जलचन्द्रवत् ॥ २५ ॥ स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः । स्वयं ध्यानं स्वयं धाता स्वयमेव परात्परम् ॥ २६ ॥ यत्र यत्र:मनो याति ( यायात् ) तत्र तत्र परः शिवः | वेदो वेद्यं जपो मौनमाचार: प्रार्थना क्रिया ॥ २७ ॥ व्रतं स्नानं तीर्थयात्रा चोपवास्यं त्रिरात्रिकम् । इत्येतदाश्रयस्थानं मुक्तिस्थानं निराश्रयम् ॥ २८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
शिवशक्तिब्रह्मज्ञानाधिकारो नाम चतुर्दश सूत्रम् ॥
५
.