________________
(१५) गीतासद्भावोऽपरेऽपराजितबोधनार्थ पञ्चदश सूत्रम् ॥
अपराजित उवाच
बीजरूपा कथं जाता वृद्धिंयाता परेश्वर । क्रियाशक्तिः कथं भूता बीजयोनिरथाम्भसि ॥१॥ गुरुमार्गाः कथं प्रोक्ताः कुलाकुलोभयोद्भवाः ? ।
कथयस्व महाभाग मम भ्रान्तिहरं प्रभो ॥२॥ विश्वकर्मोवाच
वटो यथा च बीजस्थस्तथा शुक्रगता तनुः । संघाटे काञ्चनं यद्वत् क्रियादीपेन दृश्यते ॥ ३॥ क्रियामाध्यात्मिकी विद्यात् क्रियाशक्तेरनुक्रमात् । देहस्थं दीपकं दिव्यं शक्तिरूपण बोधितम् ॥ ४॥ तेन बोधितमात्रेण पश्यन्ति भुवनत्रयम् । त्रैलोक्यदीपकं दिव्यं तत्त्वोद्योतकरं परम् ॥५॥ मूढात्मानो न बुध्यन्ति गुरुमागविवर्जिताः। गुरुवक्त्रे स्थितं तत्वं प्राप्यते तत्प्रसादतः ॥ ६ ॥ तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु । गुरुपूजा प्रकर्तव्या गन्धपुष्पाक्षतादिभिः ॥ ७ ॥ पुष्पधूपैश्च नैवेद्यैर्वस्त्रालङ्कारभूषणैः। गृहक्षेत्रपुरनामैगजाश्वशयनासनैः ॥ ८॥ तस्मात् पूजा प्रकर्तव्या हात्मना च धनेन च । गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ॥९॥ यावत्कालं भवेद्देहस्तावदेव गुरुं स्मरेत् । गुरुर्माता पिता देवो गुरुनि कुलाकुलम् ॥ १०॥ यस्यैवं संस्थितो भावस्तस्य देवस कुलम् । आसनं शयनं यानं मणिकाञ्चनभूषणम् ॥ ११ ॥ साधकेन न कर्तव्यं गुरो(4)चाधिकं ननु । गुरोः शय्यासने यानं पादुकोपानही पदम् ॥ १२॥ स्नानोदक तथाच्छायां लवयेन कदाचन । कर्मणा मनसा वाचा यैश्च नाराधितो गुरुः ॥ १३ ॥ तस्माद ज्ञानं महारत्नमत्यन्तं गूढतां गतम् योगिनी शाकिनी कर्म ? यस्य भक्तिस्तु निश्चला ॥ १४ ॥