________________
(१४) शिवशक्तिब्रह्मज्ञानं चतुर्दशं सूत्रम् ॥
अपराजित उवाच
कश्चन्द्रश्च कथं सूर्यः कथं ब्रह्मासनं स्मृतम् । कथं कामाख्यनिलयोऽन्जनिलयं कथं विदुः ॥१॥ कथं ग्रहणसङ्क्रान्ती कथं कालकलास्तथा ।
काम (य)रूपं कथं प्रोक्तं कामाख्यनिलयः कथम् ॥२॥ विश्वकर्मोवाच
ब्रह्मरन्ध्रस्थितश्चन्द्रो ह्यग्निमध्ये रविस्तथा । कामाख्यनिलयः प्रोक्तश्चन्द्रपीठे च संस्थिता? ॥३॥ प्रविष्टा पमनालेऽपि सूर्यपीठे लयं गता । संस्थिता कामरूपान्ते सूर्येन्दुग्रहणे रता ॥४॥ रविचन्द्रयुते काले शक्तिः संक्रमते यदा । तत्काले ग्रहणं प्रोक्त संक्रान्तिर्विष्णुसम्भवा ॥५॥ ग्रहणान्ते पराशक्तिः पनतन्तुनिभा स्थिता । सृजति स्वेच्छया कामः भूतग्राम चतुर्विधम् ॥ ६॥ कर्मकर्तृमणिबन्धुः करहीनोऽपि कर्षति । सृजति शानतस्तद्वञ्चक्षुहीना जगत्त्रयम् ॥ ७ ॥ भ्रामको (की) भ्रामयेद् बन्धुः करहीनोऽपि भागशः ?। सृष्टिमार्गस्थिता शक्तिः करहीना करोति च ॥८॥ चन्द्रः कोऽपि मणिबद्धो नष्चन्द्रः प्रमुञ्चति ?। मुखहीना तथा शक्तिर्वाङ्मयं दर्शयेत् खलु ॥९॥ अद्वाऽपि द्रावयति यत्किञ्चित्काञ्चनादिकम् । ज्ञानशक्तिस्तथा चैवं निद्रवेत्सृष्टितोऽश्वरम् ॥ १०॥ अग्नितेजोगुणा यद्वत् सूर्यरश्मिगुणा यथा। रवेरिव गुणास्तद्वत् सहजाः शक्तिसंस्थिताः॥ ११ ॥ निर्गुणाऽपि गुणैर्युक्ता रूपहीनाऽपि रूपिणी । संचरेत्पादहीनाऽपि कर्णहीना शृणोति च ॥ १२ ॥ जिघ्रति घ्राणहीनाऽपि वक्त्रहीनाऽपि जल्पति । चक्षुहीना लोकते च त्रैलोक्यं च करस्थितम् ॥ १३ ॥ पवं सा सर्वरूपस्था ह्यमूर्ता मूर्तिचारिणी । पराशक्तिरितिख्याता होका त्रैलोक्यनायिका ॥ १४ ॥