________________
३१
कर्मशानोद्भवाधिकारो नाम त्रयोदर्श सूत्रम् ॥ यावन्न चालयेद्योगी ह्यक्षसूत्रकरस्थितम् । सप्तकोटिजपं कृत्वा हंसस्त्वेवं निवर्तते ॥ १५ ॥ एवं विश्वगतश्चार प्राणिनां शुभदायकः । हंसरूपे स्थिताः प्राणा: प्राणास्तत्त्वैः प्रकीर्तिताः ॥ १६ ॥ हृदये सहज पद्ममष्टपत्रं सबिन्दुकम् । इच्छाशक्तिस्तथा मध्ये दलान्ते कुलदेवताः ॥ १७ ॥ शृङ्गारहास्यकरुणारौद्रवीरभयानका; । बीभत्साद्भुतशान्ताश्चाल्पाष्टौ ? कमले स्थिताः ॥ १८ ॥ कुलदेव्यप्रकोपेतमिच्छाशक्ति दिस्थिता। ऊर्ध्वाकारैः स्थिता ख्यातेन्द्रियेवुद्धिरनुक्रमात् ॥ १९ ॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः। मनो बुद्धिरहंकार; सत्त्वं रजस्तमस्तथा ॥ २० ॥ कामः क्रोधश्च मोहश्च लोभो हर्षों मदो भयम् । विषादश्चाष्टमः प्रोक्त इत्यष्टौ च गुणाः स्मृताः ॥ २१ ॥ क्षुधा तृषा भयं द्वेषो मोहचिन्तानुरागकाः । जरा मृत्युश्च दोषाश्च विस्मयं जननं तथा ॥ २२ ॥ निद्रा शोकोद्वेग परा हीच्छाशक्तिसमुद्भवाः । गुणदोषाः शरीरस्था अष्टादश प्रकीर्तिताः ॥ २३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
कर्मज्ञानोद्भवाधिकारो नाम त्रयोदशं सूत्रम् ॥