________________
(१३) कर्मज्ञानोद्भवो नाम त्रयोदशं सूत्रम् ॥
अपराजित उवाच
केवलं कुलजं ज्ञानं शास्त्र क्षेत्र तथा । चतुर्मार्गबहिस्थं च कथय परमेश्वर ॥ १॥ कष्ट साध्यं विना कष्टैरभ्यासं किल शाश्वतम् ।
कथयस्व प्रसादेन ज्ञानाभ्यासस्तु वै यथा ॥२॥ विश्वकर्मोवाच
अग्निः काष्ठे तिले तैलं क्षीरमध्ये यथा घृतम् । गुरुवत् कर्मयोगेन अभ्यासो शानदेहजः ॥ ३॥ यथा चात्यूर्वसंस्थोऽपि दृश्यते जलचन्द्रमाः। तथा सर्वत्रसंस्थोऽपि ह्यात्माल्पैरेव दृश्यते ॥४॥ अदृष्यरूपे दृष्टव्य हस्तौ चापि तथा श्रुतिः । अव्यक्ते व्यक्तरूपं च व्यक्ताव्यक्तस्य सम्भवः ॥५॥ क्षरं चैव परित्यज्य ध्यायेदात्मानमक्षरम् । त्रिपदं (थ) स्यात्परं स्थानं परं ब्रह्म तदुच्यते ॥६॥ ब्रह्मरन्धं ततो मध्ये जलसूर्य पुरभेदकम् ?। तन्मध्ये च समस्तं तु जगत्स्थावरजङ्गमम् ॥ ७॥ ऊर्ध्वं चन्द्रो ह्यधः सूर्यो ब्रह्ममूलोद्भवान्तरम् । वर्षन्त्यमोघमेघाश्च चन्द्रस्थानमतः परम् ॥ ८॥ चन्द्रस्थं च महापद्मं बिन्दु बिन्दुस्वरूपिणम् । विचित्रपङ्किपत्रस्थं महाकान्त्युपशोभितम् ॥९॥ ध्यातव्यं पूर्वदेहैस्तु ाक्षरं नात्र संशयः। नाऽसौ लिप्तः पुण्यपापैः पद्मपत्रमिवाम्भसा ॥ १० ॥ ततः परतरं यान्ति न भवन्ति पुनर्भवे । एवमभ्यालयोगैः स्यात्कर्मशानसमुद्भवः ॥ ११॥ हकारादि सकारान्तं संस्मरेत्तदहर्निशम् । लक्षयेत्तत्र संचारं वर्णाचारविवर्जितम् ॥ १२ ॥ अनन्तं सहज हंसं नित्याभ्यासपदे स्थितम् । गमागमनयोगेन सप्तकोदिजपः स्मृतः ॥ १३ ॥ षट्त्रिंशदङ्गुलं चारे वामदक्षिणगोचरे । स्वयमुच्चार्यते हंसो हंसस्तेन स उच्यते ॥ १४ ॥