________________
गर्भविज्ञानोद्भवाधिकारो नाम द्वादशं सूत्रम् ॥ यः करोति स कर्ता च भूतात्मा कथ्यते बुधैः । जीवसंशो ह्यन्तरात्मा सहजः सर्वदेहिनाम् ॥ १५ ॥ येन वेदयते सर्व सुखं दुःखं च जन्मसु । न भूत भूतसम्पर्को महाक्षेत्रज्ञ एव सः ॥ १६ ॥ एफधा बहुधा चैव दृश्यते जलचन्द्रवत् । इदं शरीरं ज्ञानेन क्षेत्रमित्यभिधीयते ॥ १७ ॥ आत्मैव चात्मचैतन्यमात्मना सृजति स्वयम् । आत्मना कृतं नानात्वमात्मन्येव प्रलीयते ॥ १८॥ ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स चेदवित् ॥ १९ ॥ एकस्तम्भे नवद्वारे त्रिशले पञ्चदेवताः। क्षितिप्राकारसन्नद्धेऽनुपरिचारनायकाः ॥ २० ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
गर्भविज्ञानोद्भवाधिकारो नाम द्वादशं सूत्रम् ॥