________________
(१२) गर्भविज्ञानोद्भवो नाम द्वादशं सूत्रम् ॥
अपराजित उवाच
पञ्चविंशगुणैर्युक्ताः पञ्चतत्त्वसमन्विताः । वर्तन्ते संसतौ ये तु तेषां मोक्षः कथंचन ॥१॥ धर्मार्थकाममोक्षाणां प्राप्तिरेषां कथं भवेत् ।
किं तेषां च फलं लोके संसारसारसागरे ॥२॥ विश्वकर्मोवाच
उत्पन्ना गर्भसंभतेनिःसता योनिसंकटात् । अचैतन्या अस्मराश्च उद्भता बधिरान्धकाः ॥ ३ ॥ तत्रैवं ते प्रवर्तन्ते संसारजालमोहिताः । कामात्मानः प्रपीडयन्ते तृष्णाकान्तास्तथैव च ॥ ४॥ चक्षुर्भिः स्नेहपाशैश्च मोहं कुर्वन्ति कामिनः । पुनः पतन्ति संसारे पतङ्गा दीपवर्तिषु ॥५॥ आत्मानं वेदचक्षुर्भिः पश्यन्ति शानदृष्टयः। ते नराः परमं यान्ति न पतन्ति पुनर्भवे ॥ ६ ॥ उद्यमैः साहसैधैर्यैर्गुरुभक्तिपरायणाः । धर्मार्थकाममोक्षाणां प्राप्तिहेतुर्मनीषया ॥७॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्य मेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ८॥ कृतत्रेताद्वापरे च चतुर्थे वा कलौ युगे। शानं धो गुरुदयो युगानुरूपभावना ॥९॥ कृते तु सहज ज्ञानं त्रेताया कुलजं तथा । द्वापरे शास्त्र ज्ञान क्षेत्र तु कलौ युगे ॥ १० ॥ सहज कुलजं चैव शास्त्र क्षेत्र तथा। एवं चतुर्विधं ज्ञानं युगरूपानुमोदितम् ॥ ११ ॥ शानं गुरुमुखोद्भूतं संसृतेः पाशच्छेदनम् । ये भजन्ति गुरुं भक्तया सूर्य तमिहरं यथा ॥ १२ ।। लभन्ते ते ततो शानं धमें तीर्थे महात्मनि । अर्थदानप्रभावेण झास्यन्ति तपसां क्रमम् ॥ १३ ॥ झाने मोक्षं तपो राज्यं दाने भोग्यं महोत्कटम् । एवं तु जायते मुक्तियों जानाति स पण्डितः ॥ १४ ॥