________________
पञ्चतत्त्वपञ्चगुणनिर्णयाधिकारो नामैकादशं सूत्रम् ॥ त्वचामांसास्थिनखरा रोमाण्यत्राद्यपञ्चकम् । क्षितेरेतान् गुणान् पञ्च वदन्ति ब्रह्मवादिनः ॥ १५ ॥ लाला मूत्र तथा शुक्र मज्जा रक्तं च पञ्चमम् । इमान्यपांव्यञ्जकानि बदन्ति शानिनः सदा ॥ १६ ॥ क्षुधा तषा तथा निद्रा चालस्य कान्तिरेव च । तेजसस्तु समुत्पन्ना वदन्ति ब्रह्मवादिनः ॥ १७ ॥ धावनं प्लवनं चैव संकोचनप्रसारणे । निरोधः पञ्चमश्चैव वायोरेतत्तु पञ्चकम् ॥ १८ ॥ रागद्वेषौ भयं मोहः प्रसादश्चैव पञ्चमः । पते पञ्च गुणाः प्रोक्ता आकाशस्य व्यवस्थिताः ॥ १९ ॥ पञ्चतत्त्वैः समुत्पन्ना गुणानां पञ्चविंशतिः । पृथक् पृथक् च प्रत्येकं पञ्च पश्चकसम्भवः ॥ २० ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायो
पञ्चतत्वपञ्चगुणनिर्णयाधिकारो नामैकादशं सूत्रम् ।।