________________
(११) पञ्चतत्वपञ्चगुणनिर्णयो नामैकादशं सूत्रम् ॥
अपराजित उवाच
कथं भवश्च जीवानां सोहः स्त्रीणां नृणां कथम् ।
स्नेहास्वां परिपृच्छामि ल्हादयन्तं निजात्मजम् ॥ १॥ विश्वकर्मोवाच
शिवशक्तिस्नेहात्मकः कामश्च हृदयात्मजः । ततः सम्युक्तयोगश्च शिवशक्ती परात्परे ? ॥२॥ इति कामस्य संयोगाच्छिवशक्तिप्रभावतः । स्वयं ब्रह्मरुतेनैव नादबिन्दुसमुद्भवः ॥ ३॥ एकीभूतं यदा काले त्वन्तकाले प्ररोहति । सङ्कमेच्छुक्ररक्तं तु ब्रह्मविष्णुशिवात्मजम् ।। ४ ॥ कललं त्वेकरात्रेण पञ्चरात्रैश्च बुद्बुदम् । शोणितं दशरात्रैश्च मांसहीन चतुर्दशैः ॥ ५॥ घन मांसं विंशतिभिर्गर्भस्थं वर्द्धते क्रमात् । एकमाले च सम्पूर्ण पञ्चतत्त्वानि धारयेत् ॥६॥ मासद्वये च सम्पूर्णे मांसपिण्डः प्रजायते । मज्जास्थिनी त्रिभिर्मासै: केशाङ्गल्यश्चतुर्थके ॥ ७ ॥ कर्णजिहानासिकाश्च रन्धं मासे तु पञ्चमे। कण्ठरन्ध्रोदरे षष्ठे गुह्यं चाण्डं च सप्तमे ॥ ८॥ सर्वाङ्गसन्धिसम्पूर्तिरष्टमासैः प्रजायते। मासे च नवमे प्राप्ते गर्भस्थः स्मरति स्वयम् ॥ ९ ॥ मातरं पितरं भ्रातॄन् पुत्रपौत्रादिकं तथा । ज्ञानतोऽथ प्रार्थयते धर्म च देवतादिकम् ॥ १०॥ येनाई न पतेयं वै संसारयोनिसंकटे।। अहं तं च करिष्यामि निःसृतो गर्भवासतः ॥ ११ ॥ विकासो जायते तस्य गर्भवासं ततस्त्यजेत् । योनेयों निस्सरेत्तिर्यक् मृत्युस्तस्य भवेद् ध्रुवम् ॥ १२ ॥ बधिरो वा भवेदन्धो जायते मूर्च्छनादिकम् । एवं विनिःसृतो जन्तुः संसारे मुह्यते क्षणात् ॥ १३ ॥ अथ चैवं प्रवक्ष्यामि महाभूतविनिर्णयम् । पश्चात्मक; परो भावो ह्यपरं पञ्चभूतकम् ॥ १४ ॥