________________
संसारभूतग्रामोत्पत्तिपञ्चतस्वनिर्णयाधिकारो नाम दशमं सूत्रम् ॥ अहङ्कारश्च विकृतो रागद्वेषाकुलो ध्रुवम् । पञ्चपित्तोद्भवाश्चैवं आतपकुलसम्भवाः ॥ १४ ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च।। शब्द: स्पशों रसो रूपं गन्धश्च पञ्चकं त्विदम् ॥ १५ ॥ गतिहः श्रुतियाप्तिर्विसर्गो दशपञ्चकम् । अहङ्कारो रागद्वेषौ क्रोधोऽस्मिता प्रकृतयः ॥ १६ ॥ मन: प्रक्षा बुद्धिचित्तभावाश्च पञ्चविंशतिः। कामो मदो लोभमोही भयं तत्त्वानि त्रिंशतिः ॥ १७ ॥ चित्तं चैतन्यरूपं च भाव एवमतः परम् । तदुद्भवः समस्तोऽयं संसारो यो प्रवर्तते ॥ १८॥ पाणिपादौ च बुद्धिक चक्षुः श्रुतिः षडाश्रयाः । एते षडाधया नित्यं मूलसंभाय तद्भवा ? ॥ १९ ॥ बुद्धिज्ञानं शास्त्रज्ञानं हेतुनानं तृतीयकम् । सहजं गुरुजं काम षड्विधं झानमुच्यते ॥ २० ॥ संयोगां योगयुक्तानां अयोगं योगयुक्तिदम् । शिवशक्तिसमायोगं ब्रह्माविष्णु एवनात्मजम् ? ॥ २१ ॥ ब्रह्मबिन्दुसमायोगं शिवशक्तिः परात्परम् । संयुक्तयोग एवं यो योगयुक्तः स उच्यते ॥ २२॥ रक्तः पीतः श्वेतकृष्णौ श्यामो नीलस्तथा हरित् । सप्तधास्तु इमे प्रोक्ताः सप्तस्थानादिकोद्भवाः ॥ २३ ॥ श्वेता: श्वेतसमुद्भता रक्ता रक्तसमुद्भवाः । पीताः पीतसमुत्पन्नाः कृष्णाश्च मेचकोद्भवाः ॥ २४ ॥ श्यामाः श्यामसमुद्भता नीलाश्च ज्योतिर्मण्डले। निशा भासाद्भवोत्पन्नाः सङ्ख्या: सप्त प्रकीर्तिताः ॥ २५ ॥ रागद्वेषालसाश्चैव विमला मतसंभवाः ।। चतुर्विधा भूतग्राम मेतसांनि चतुर्विधा ? ॥ २६ ॥ अण्डजा उद्भिजाश्चैव जरायुजाश्च स्वेदजाः।। चतुर्विधा योनिजाश्च संसारे सष्टिसम्भवाः ॥ २७ ॥ कामक्रोधलोभमोहभयादि पञ्चकोद्भवाः । एवमादि गुणोपेताः पञ्चकामेन्द्रियाणि च ॥ २८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापरराजितपृच्छायां
संसारभूतग्रामोत्पत्तिपञ्चतत्त्वनिर्णयाधिकारो नाम दशमं सूत्रम् ॥
4A. P.