________________
(१०) संसारभूतग्रामोत्पत्तिपञ्चतत्त्वनिर्णयो नाम दशमं सूत्रम् ।।
अपराजित उवाच
केनोत्पत्तिः समस्तानां भूतानां च तथालयः। केनासौ कलते कालो लयं यान्ति च सर्वशः ॥ १॥ केनासौत्र नाति कालन्यानास्यासः ? वद प्रभो।
शानं तनु युक्तोद्रव्यं पश्यन्ते च परस्परं विदुः ॥ २॥ विश्वकर्मोवाच
पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् । तं सप्तधातुविमलं वयोोने ? चतुर्विधं हारमयं शरीरकम् ॥ ३ ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । पञ्चात्मकमिति प्रोक्तं कथयामि गुणोद्भवान् ॥ ४ ॥ कठिना या सा तु पृथ्वी द्रवाश्चापस्तदुद्भवाः । दीप्तं यत्तद्भवेत्तेज चलं तत् पवनात्मकम् ॥ ५ ॥ यच्छिदं तु तदाकाशं तेभ्यः सर्वसमुद्भवः । इत्थं पश्चात्मकं भूतं कथितं हि यथाक्रमम् ॥ ६ ॥ पृथिवी धारणं कृत्वा द्रवीकरणं तथैव च । तदुद्भवं तेज:पुनस्तेजत्वेषु समुद्भवे?॥ आकाशस्याधिकारश्च पञ्चात्मकःस्थादनुक्रमात् ? स्पर्शो रसश्च रूपं च गन्धः शब्दश्च पञ्चमः ॥ ७ ॥ जिह्वायां रस आयाति स्वादस्यैव च कारणम् । रूपं च चक्षुषश्चैव गन्धो घ्राणात् तथा मतः ॥ ८॥ . शब्दो ब्रह्मादि ? संभूतः पञ्चतत्वानि वै विदुः । गतिहिस्स्तुतियाप्तिर्विसर्गश्चैव पञ्चकम् ॥९॥ पादैः स्याद् गतिसंयोगः हस्तैस्तु ग्रहणं भवेत् । उपस्थानापयन्ति विसर्जन्ति गुदेन च ॥१०॥ श्रुतिः श्रोत्रेन्द्रियेणैव जिह्वया च तथा रसः । एवं तत्त्वोद्भवा सृष्टिस्तन्मात्रादिकमुच्यते ॥ ११ ॥ आत्मा तन्मात्राण स ? मनः संकल्पलक्षणम् । व्यवसायो बुद्धिभावः प्रज्ञाहंकारको तथा ॥ १२ ॥ तत्तथा तु तन्मात्रं बुद्धीन्द्रियक्रमस्फुटम् । व्यवसायो बुद्धियोगः प्रज्ञा विकाशकोद्भवा ॥ १३ ॥