________________
भूराज्यनिवेशनाधिकारो नाम नवमं सूत्रम् ॥ दक्षे हरिभरतश्च किम्पुरुषश्च पुष्करे । अध्यन्तः कुरुभद्राश्वो मेरोश्चैवोत्तरे स्थिताः ॥ १५ ॥ मेरुवृत्ताङ्ग ? दक्षिणे रम्यकस्योर्ध्वमालिका । गन्धर्वानगरी रम्या नाम्ना गन्धर्वमालिनी ॥ १६ ॥ विद्याधरास्तदूर्वं तु यक्षाश्चैवं तदूर्ध्वतः। तदूर्व वैदेवाः ख्याता देवाश्चैवं तदूर्ध्वतः ॥१७॥ तथोर्ध्व सप्तलोकाश्च संस्थिताः क्रमयोगतः । तदूर्व मेरुराख्यात ऊर्च शम्भूद्भवाः किल ॥ १८ ॥ विचित्रशिखरे रम्ये रत्नधातूपशोभिते। चन्द्रसूर्योपमः कान्तो नीलार्कसदृशस्तथा ॥ १९ ॥ वज्रबैडूर्यगोमेदैः पुष्परागेन्द्रनीलकैः । द्वादशादित्यतेजोभिः सूर्यकोटिसमप्रभः ॥ २० ॥ तत्र शम्भुमहादेवो हव्यक्तं परमं पदम् । प्राचीना च भवेन्मूर्तिः सूर्यतेजस्समुद्भवा ॥ २१ ॥ ब्रह्मविष्णू ततो जातो संसारसटिकोद्भवौ । ब्रह्मतेजस्समुत्पन्नः काश्यपो मुनिपुङ्गवः ॥ २२ ॥ सृष्टिस्तदुद्भवा त्वेवं जगत्स्थावरजङ्गमम् । चतुर्विधो भूतग्रामः पृथक् पृथक् शरीरिणाम् ॥ २३॥
इति सूत्रसन्तानगुणकार्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
भूरराज्यनिवेशनाधिकारो नाम नवमं सूत्रम् ॥