________________
(९) भूराज्यनिवेशनो नाम नवमं सूत्रम् ॥
अपराजित उवाच
के च देवाः स्थिता लोके सप्तद्वीपेषु के स्थिताः । सिन्धूपकण्ठनिर्वासा के च शैलाश्रमस्थिताः॥१॥ कानि क्षेत्राणि द्वीपेषु कास्तथा वासभूमयः ।
राजानः के च तत्रोक्ताः कथयस्व जगत्प्रभो ॥२॥ विश्वकर्मोवाच
शणु वत्स प्रवक्ष्यामि द्वीपानां चैव लक्षणम् । प्रमाणं च तथोक्तानां कथये तव साम्प्रतम् ॥ ३॥ द्वीपांश्च कथयिष्यामि सप्तद्वीपा तु मेदिनी । पृथक् पृथक् महाराज्यं कथयामि समाहितः॥४॥ पृथुश्च कुशकोचौ च शाकः शाल्मलिकस्तथा । गोमेदः पुष्कराख्यश्च सप्तद्वीपा नृपः कृता ॥ ५॥ महाराजाभिधानश्च सप्तद्वीपाभिधानकम् । पुष्कराख्यो महाराज; सप्तमद्वीपदीपकः ॥६॥ गोमेदस्य गोमेदः शाल्मले शाल्मलो नृपः । शाकश्च शाकद्वीपे च क्रौञ्चः क्रौञ्चाधिपस्तथा ॥ ७ ॥ कुशश्च कुशद्वीपे च महोत्कटा महाबलाः । महारूपाश्च भूपालाः संस्थिता मेरुदक्षिणे ॥ ८॥ पृथुः पृथुमहीश्वरः जम्बूद्वीपाधिपः पृथु; । मेरो: प्रदक्षिणे कुक्षौ जम्वाख्यश्च महातरुः । यस्य नाम्ना तु विख्यातो जम्बूद्वीपेतिसंशितम् ॥ ९॥ एकच्छत्रं पृथोराज्यं जम्बूद्वीपे बभूव तत् । क्षारार्णवस्य मध्ये तु पृथुत्वे लक्षयोजनम् ॥ १० ॥ पृथोश्च नवपुत्राश्च जम्बूद्वीपाधिपा मताः। तेषामेवाभिधानश्च क्षेत्राणां नवधोच्यते ॥ ११ ॥ इलावतो रम्यकश्च केतुमाल्यो हरिस्तथा। भारतः कुरुभद्राश्वौ किम्पुरुषहिरण्यकौ ॥ १२ ॥ इत्युक्ताभिधानाः पुत्रा विभक्ताः पृथुभूपतेः। तेषामेवाभिधानश्च नवखण्डाः प्रकीर्तिताः ॥ १३ ॥ मेर्वावृत्त्या प्रदक्षिणे रम्यको मुक्तिभतलः । मेरोश्च पुरतो भागे इलाख्य; केतुमालिका ॥ १४ ॥