________________
सप्तपातालराज्योद्भवाधिकारो नामाष्टमं सूत्रम् ।। मोहमुद्रोपमा दृष्टिः संसारफलदोपमाः । तथा चूडोन्नताः केशाश्चित्ररत्नसमुज्ज्वलाः ॥ ३१ ॥ चन्द्रसूर्योपमैश्चैव कुण्डलैस्समलङ्कृताः। नैकरत्नमयैश्चैष हारैः पापप्रणाशनैः ॥ ३२ ॥ मेखलाकटिसूत्राद्यैस्सर्वरत्नोपमैः सदा । एवमाभरणैर्युक्ता दिव्यकान्त्या सुतेजसा ॥ ३३ ॥ स्वर्गादिदेवताभक्ताः पन्नगास्सुमहोत्सवाः । देवाग्निगुरुभक्ताश्च संस्थिताश्चैव निश्चलाः ॥ ३४॥ सहस्रफणसंकीर्णाः सहस्ररदशोभिताः । स्वेच्छारूपधरा दिव्याः स्वर्गपातालगामिनः ॥ ३५ ॥ एवं वासुकिराज्यं च सप्तपातालकक्रमः । वासुकिर्नागराजेन्द्र ईश्वरानन्यभक्तिमान् ॥ ३६ ॥
इति सूत्रसन्तानगुगकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
सप्तपातालर।ज्योद्भवाधिकारो नामाष्टमं सूत्रम् ।।