________________
अपराजितपृच्छा केतकीदलसारूप्या करदग्रेन शोन्यता? वेताः स्त्रियश्च पुरुषाः ख्याता वितलवासिनः ॥ १५॥ ताम्बूलादिरसाहारा: शत्रुरूपा महाबलाः । एवं कार्कोटकं राज्यं पाताले तु द्वितीयके ॥ १६ ॥ कुङ्कुमाजिकतनागास्तु - - दाश्वासकोद्भवा ?। पद्मपुष्परसाहारा: स्वेच्छारूपा महाबलाः ॥ १७ ॥ रक्तोष्ठनखपादाश्च तथा च रक्तपाणयः। राज्यं च पुण्डरीकस्य पाताले तु तृतीयके ॥ १८ ॥ तक्षकस्य तथा राज्यं कथयामि समासतः। रक्ताक्षाश्च महोत्साहा दिव्यरूपास्तथोत्तमाः ॥ १९ ॥ रक्ताक्षं च महद्भुतं रक्तोत्पलमिवांभसि। सस्थाव (र) तीरेखामण्डितं स्त्रीणां तनुमावृते ? ॥ २० ।। रक्तोत्पलदलाभासा मध्यक्षामा; स्तनोन्नताः । पूर्णचन्द्राननाश्चैवं स्त्रियस्सन्ति सुशोभनाः ॥ २१ ॥ एवं तक्षकराज्यं वै पाताले तु चतुर्थके। पञ्चमेऽनन्तको राजा तस्य वक्ष्यामि साम्प्रतम् ॥ २२ ॥ नीलोत्पलदलाभासा अतसीपुष्पसन्निभाः। मणिरत्नसुशोभाढया दिव्याभरणमण्डिताः ॥ २३ ॥ दिव्यरसाहारमाला दिव्यदेहा महोत्कटाः । संसारामोघमालिन्यस्तद्राज्ये च स्त्रियस्तथा ॥ २४ ॥ मोहिन्यो दिव्यदेहैस्तु मोहयन्ति जगद्गुरुम् । एवं गुणैः समुद्भता आनन्ते च तलातले ॥ २५ ॥ रसातले तु पाताले रसानां दिव्यदेहकम् । यस्तञ्चारसैर्दिव्यैशोभि वे दिस्य देहिनः ? ॥२६॥ दिव्यरत्नोपमाः कान्ता दिन्यदेहाः सुरूपकाः । नागकन्या महारूपाश्चडामणिमहोत्सवाः ॥ २७ ॥ श्वेतरक्तपीतकृष्णविचित्ररूपशोभिताः। राज्ये वै शङ्खचूडस्य नागराजेन्द्रकन्यकाः ॥ २८ ॥ सप्तमं कथयिष्यामि पातालं च यथाक्रमम् । पातालेषु च सर्वेषु श्रेष्ठं नागसमाकुलम् ॥ २९ ॥ समानरूपैराकीर्ण श्वेतरक्तशरीरिभिः । पद्मरागनिभाः सन्ति सर्वरत्नैश्च शोभिताः ॥ ३० ॥