________________
. (८) सप्तपातालराज्योद्भवो नामाष्टमं सूत्रम् ॥
अपराजित उवाच
के च स्वर्ग कृता देवा के च पातालसम्भवाः ।
मर्त्यलोके च भूतानि कथयस्व परेश्वर ॥ १॥ विश्वकर्मोवाच
तलो वितलस्सुतलो नितलश्च तलातलः। रसातलश्च पाताल उरगेशाश्च सप्त च ॥ २॥ उरगोद्भवपाताले सप्तपातालविक्रमम् । पृथगेवं समुद्दिष्टा ? नवनागकुलानि च ॥ ३ ॥ पद्मः कर्कोटकश्चैव पुण्डरीकोऽथ तक्षकः । अनन्तः शङ्खचूडश्च वासुकिः सप्तमो मतः ॥ ४ ॥ सप्तपाताललोकेशा महावीर्या मदोत्कटाः। रौद्राश्च विद्रुताः सर्वे ह्यमात्या वीरविक्रमाः ॥५॥ तलेषु पद्मको राजा वितले च कर्कोटकः । सुतले पुण्डरीकाक्षो नितले चैव तक्षकः ॥ ६॥ तलातले त्वनन्तश्च शङ्खचूडो रसातले । वासुकिर्नागराजेन्द्रः पाताले सर्वतोऽधिपः ॥ ७ ॥ कुलानि नव प्रत्येकं त्रिषष्टिकुलपन्नगाः। सप्त पाताललोकेशाः संस्थिताः क्रमयोगतः ॥ ८॥ यस्पझेशस्य वै राज्यमाद्यपातालसंशितम् । तत्रामर्त्यनिवासाश्च चन्द्रकान्तिसमा भुवः ॥ ९ ॥ दिव्यरूपधराः सर्वे दिव्याभरणभूषिताः । स्वेच्छारूपं स्त्रीनगणां स्वेच्छागम्यास्तदात्मजाः ॥ १० ॥ रक्तोष्ठी कम्युग्रीवा च कर्णपूरायतेक्षणा । वर्णश्यामा क्षाममध्या दशनमौक्तिकोपमः ॥ ११ ॥ नीलोत्पलदलाभासा करवीरदलाकृतिः। सारद्रमनितम्बा च रम्भाजङ्घा तथैव च ॥ १२ ॥ एवं स्त्रियः पुमांसश्च स्वेच्छारूपधराः किल । पझेशस्य महाराज्यं पूर्व पातालवासिनाम् ॥ १३ ॥ दिव्यतेजोमयाश्चैवं शुद्धस्फटिककान्तयः! तथा चायतनेत्राश्च प्रवालसदृशाधराः ॥ १४ ॥