________________
अपराजितपृच्छा एकैव च नखीजाता द्वात्रिंशंञ्च तदात्मजाः । प्रामारण्यव्योमचरा: संख्याताश्च समस्तकाः ॥ १५॥ गजा वराहाश्चैवं च एकान्वयसमुद्भवाः । कथिता चान्वयोद्भतिरश्वीनां तु ह्यतः परम् ॥ १६ ॥ अश्वः खरश्च पौराश्च गैरा म(क)कंटकादयः । अन्ये च श्वापदाः सर्वे ह्यश्व्युत्पत्तिः प्रकीर्तिता ॥ १७ ॥ तिस्रः पुत्र्यः समुत्पन्ना मानस्यः कश्यपस्य तु। पद्मा चाम्भोभवी क्रौञ्चा तिस्रश्चैवं प्रकीर्तिताः ॥ १८ ॥ अम्भोभव्या जलचरा: पद्मायाः पद्मसम्भवः । क्रौञ्चारमजाश्च शैवालास्त्रिधा चैवं समुद्भवम् ॥ १९ ॥ चतुर्वर्णाः प्रकृतयो ह्यन्त्यजा नीचकोद्भवाः । भौमा: कीटपतङ्गाश्चोष्मजा उरगव्यन्तराः ॥ २० ॥ भूम्युदकेषु सम्भूता विख्याता बीजतस्तथा । भूमौ समुद्भवं चैवं सम्योगे वारिणां खलु ॥ २१ ॥ उदके सर्वबीजानां सम्भूतिः सर्वतः स्मृता। केचिदाकाश उत्पन्नाः केचित् पातालसम्भवाः ॥२२॥ केचिद् भूम्युद्भवाश्चैव विविधः सृष्टिसम्भवः । वर्षाकाले समुत्पत्तिहमन्ते तु प्रवर्तनम् ॥ २३ ॥ प्रलयो ग्रीष्मसम्प्राप्ती अजीर्णे ? पुनराग्रजेत् । चतुरशीति लक्षाणि जीवयोनिरनेकधा ॥ २४ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
सृष्टिसंसारावतारणाधिकारो नाम सप्तमं सूत्रम् ॥