________________
. (६) अष्टशक्त्युद्भवो नाम षष्टं सूत्रम् ॥
अपराजित उवाच
उत्पत्तिः कथ्यतां सर्वा देवानां च नृणां तथा । दैत्यरक्षोऽसुराणां च पशुपक्षिशरीरिणाम् ॥ १॥ के ते ब्रह्मसमुद्भताः के ते विष्णुसमुद्भवाः ।
कस्माद् देवाच्च के जाताः संसारे रूपधारिणः ॥२॥ विश्वकर्मोवाच
ब्रह्मणो हृदयाज्जातः काश्यपो मुनिपुङ्गवः । कश्यपप्रभवा सृष्टिस्त्रैलोक्योदयशालिनी ॥ ३॥ कश्यपस्य परा ह्यष्टावादित्याद्याश्च शक्तयः । जनन्यो जगतस्ताभ्यः संसारसृष्टिकोद्भवः ॥ ४॥ दित्यासुर्यों च गन्धर्वी यक्षी विद्याधरी तथा । नरेन्द्री नागराजेन्द्री ह्यदितिश्चाष्टमी मता ॥५॥ दित्या दैत्याश्च सम्भूता आसुर्या असुरास्तथा । गन्धाश्चैव गन्धर्वा यक्ष्या यक्षास्तथा स्मृताः ॥ ६ ॥ विद्याधर्या विद्याधरास्तथाऽऽदित्याश्च देवताः । जाता नागाश्च नागेन्या नागेन्द्रो वासुकी मतः ॥ ७ ॥ (नागेन्द्राश्च विहंगाश्च नागराजेन्द्रिकोद्भवाः) नरेन्द्याश्च नरा जाता विप्रशूद्रानुमार्गतः। अष्टादश प्रकृतीनां कुलीनानामनेकशः ॥ ८॥ दैत्यानां नवभेदाः स्युः पञ्चभेदास्तथासुराः । चतुर्भेदाश्च गन्धर्वास्त्रिभेदा यक्षकाः स्मृताः ॥९॥ विद्याधराः पञ्चभेदा वैदेवी च गुरोत्तमा । द्विधाश्च नागराजेन्द्रा नरेन्द्राणामनेकधा ? (नरेन्द्रास्तु ह्यनेकधा) ॥ १० ॥ शशाश्च तथा सूर्यस्ताभ्यां नृपकुलोदयः । विश्वेदेवाश्च वस्वाद्याः सन्ति विश्वासमुद्भवाः ॥ ११ ॥ देवानामङ्गिराणां च मातृणां च तथापरम् । दैत्यादिषु च सर्वेषु पूजिताश्च तदन्वये ॥ १२॥ असुरो दानवो दैत्यः शुक्रो राहुश्च पञ्चमः । गन्धाश्चैव चत्वारस्तौर्यत्रिकप्रकाशकाः ॥१३॥ कुबेर: कंकतो यक्षो यक्ष्या जातात्रयः किल । समस्ता दैत्यपालानां दैत्या भक्तवशानुगाः ॥ १४ ॥