________________
अपराजितपृच्छा ज्योतीरूपं भवेद् व्योनि कल्पानिज्योतिसद्भवम् (रुद्भवम्!)। व्योनि सद्योजातमूर्तिः शक्तिः स्याज्योतिसद्भवा ॥ १६ ॥ शिवशक्तिसमायुक्तमुद्भवेद्रुद्ररूपकम् । शम्भो रुद्रोद्भवः प्रोक्तो ब्रह्मविष्णू तदुद्भवौ ॥ १७ ॥ ततः शम्भूद्भवा सृष्टिर्जगत् स्थावरजङ्गमम् । देवासुरमनुष्याश्च पशुपक्षिशरीरिणः ॥ १८ ॥ शम्भोर्मनोभवा रम्या परब्रह्मात्मचेतसः । तदुद्भवा ततः सृष्टिः पञ्चतत्वयुता परम् ॥ १९ ॥ हरचित्तोद्भवाद् भव्यो ? नाम ! (भव्यस्तथा) विश्वाधिपो हरिः । ततस्तदुद्भवा सृष्टिस्त्रैलोक्ये सचराचरे ॥ २० ॥ तदुद्भवं रजः सत्त्वं तमश्चापि तृतीयकम् । तत्र सृष्टिरनेकाऽभूज्जनसन्तानकारिणी ॥ २१ ॥ रजो ब्रह्मा तमो विष्णुः सत्त्वं चैव महेश्वरः। ते चक्रयोद्भवं सत्त्वं सृष्टिसंसारसम्भवम् ॥ २२॥ रजसो रचना ख्याति: संसारस्सृष्टिकोद्भवा। चतुरशीतिलक्षाणि जीवयोनिरनेकशः ॥ २३ ॥ तमसस्तामसी शक्तिस्तमसा तेजोवर्द्धिनी। माया मोहमयी कामं वैष्णवी मोहनाशिनी ॥ २४ ॥ सत्वशान्तिकशक्तिश्च सत्यज्ञानाद् ब्रह्मात्मजा। संसारपापमुक्तानां मोक्षार्थ सत्वशान्तिकी ॥ २५॥ इति सूत्रसन्तानगुणकोतिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
सप्तोललोकाधिकारो नाम पञ्चमं सूत्रम् ॥