________________
(५) सप्तोलोको नाम पञ्चमं सूत्रम् ॥ अपराजित उवाच
पातालमर्त्यलोकौ च कथितौ हि प्रमाणतः। स्वर्गकथय मे तात प्रसादं कुरु मे प्रभो ॥१॥ जम्बूत ऊर्ध्वमाख्याता स्वर्गलोकाश्च सप्तधा। सप्तते कथिता: स्वर्गा देवानामालयाः स्मृताः ॥२॥ संस्थिताः क्रमयोगेन पात्रे पात्रमिवापरम् । सृष्टिः शम्भूद्भवा स्वर्गः कथ्यते तव साम्प्रतम् ॥ ३ ॥ भुवर्लोकश्च स्वर्लोको महोलोकश्च तत्परम् । तुरीयो जनलोकश्च तपोलोकश्च पञ्चमः ॥ ४ ॥ सत्यलोक: सत्यगामी ज्ञानलोकोऽत्र सप्तमः । विना विरचिताः शस्त्रैलोका वै शम्भुसम्भवाः ॥५॥ तदूर्ध्व मेरुराख्यात एकविंशदिवाधिपः । ब्रह्माण्डमध्ये मेरुर्वं त्रैलोक्यस्तम्भकः स्मृतः ॥६॥ निर्गन्धाः कल्पदेव्यः परिचिता देवतात्मकाः । प्रद्योतकं समस्तं तज्जगदाल्हादकारकम् ॥ ७ ॥ स्वर्गे चाग्निः ? (चाय)स्थिता देवास्तेषां पृथ्व्युद्भवाः । सप्त चिन्तात्मका लोकाः संसारहितकाम्यया ॥ ८॥ स्वर्गतो यो भवेदातस्तदूर्व सप्तमालिकाः । एकैकास्तेजोरूपाढ्याः स्वर्ग ? (सूर्य)कोटिसमुद्भवाः (समप्रभाः) ॥९॥ प्रथमा काञ्चनसमा ह्यन्या स्फटिकनिर्मला । तृतीया विन्द्रनीला च वैडूर्या च चतुर्थिका ॥ १० ॥ पञ्चमी पारागा च षष्ठी वै वज्रका मता। सप्तमी सर्वरत्नाढ्या ब्रह्मतेजस्तदूर्ध्वके ॥ ११ ॥ तेजसोऽम्भोभवो ज्योतिः संसारसृष्टिकारणम् ! । तदुद्भवं समं चेदं जगरस्थावरजंगमम् ॥ १२ ॥ त्रैलोक्यप्रभवं ज्योतिर्जगदाल्हादकारकम् । धर्मार्थकाममोक्षाणां सम्भवो ज्योतिषस्तथा ॥ १३ ॥ तेजो ज्ञानोद्भवं ज्योतिः कोटिसूर्यसमप्रभम् । तदुद्भवं महारूपं संसारमोक्षसौख्यदम् ॥ १४ ॥ कालाग्निरिव सम्भूतं रुद्ररूपं महाभयम् ? । रुद्रत्वं ? कलते काल महाकालो मुटुर्मुहुः ॥ १५ ॥