________________
१२
अपराजित पृच्छा
कचित्पर्वतरस्या च क्वचित्सागरशोभिता । क्वचित्सरिदुमै रम्या तडागैः शोभिता क्वचित् ॥ ३२ ॥ एवं मही महारभ्या शस्यैः संशोभिता क्वचित् । मुख्यैः काञ्चनपुष्पैश्च रम्यासुरनरोरगैः ॥ ३३ ॥ रचिता विरचिताख्या योजनैः कलितोन्नतिः । यथोक्तेन प्रमाणेन द्वीपशैलार्णवादिकम् ॥ ३४ ॥ वेदयुग्माङ्गलेईस्तो दण्डो वेदकरै मतः । द्विसहस्रदण्डैः क्रोशो योजनं वेदकोशकैः ॥ ३५ ॥
इति सूत्र सन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्त पराजित पृच्छायां पातालद्वीपार्णव सूत्रणा (संचरा) धिकारो नाम चतुर्थ सूत्रम् ॥