________________
पातालद्वीपार्णवसूत्रणं (सूचन) चतुर्थ सूत्रम् ॥ ततो द्विगुणविस्तीर्णाः क्रमेणापि सुसंस्थिताः। ब्रह्मसृष्टयुद्भवांशे तु पातालतलमेव च ॥ १६ ॥ तदुर्ध्वं सागरा द्वीपा: शनैश्चापि भू(ती)संस्थिताः । जम्बूद्वीपादिमानेन सप्तद्वीपा वसुन्धरा ॥ १७ ॥ तथा सप्तसमुद्राश्च प्रमाणेन प्रकीर्तिताः । जम्बूः लक्षः कुशक्रौञ्चौ शाल्मलिश्च तथैव च ॥ १८॥ शाकस्तथा समाख्यातः पुष्कराख्यश्च सप्तमः । द्वीपाः सप्त समाख्याता अकृता शम्भुना हि ते ॥ १९ ॥ जम्बूद्वीपो लक्षमेकं योजनानां तु सङ्ख्यया। तत्परमर्णवा जाता: सप्तसृष्टिविराजिताः ॥ २० ॥ सातश्च ? सप्तमां यान्ति क्रमेणापि सुसंस्थिताः । क्षारार्णवक्रमेणैव संस्थिताः सप्त सागराः ॥ २१ ॥ सागरान्ते भवेद् द्वीपो द्वीपान्ते चैव सागरः। क्रमयुक्तिर्विधातव्या सप्तद्वीपा वसुन्धरा ॥ २२ ॥ सम्भूता विष्णुतः सर्वे सप्तद्वीपाश्च सागराः । समुद्राः संस्थिताः सर्वे नगान्तेषु च विश्रुताः ॥ २३ ॥ अयुतायुतयोजनाः पृथगेकैकसागराः । विपुलागाधगम्भीरा आवर्तबहुलाकुलाः ॥ २४ ॥ क्षार: क्षीरोदधिः समिधुरिक्षरसोदकः। समुद्राः सप्तधेत्युक्ताः सन्ति विष्णुसमुद्भवाः ॥ २५ ॥ नैकशैला कुलारभ्या पृथ्वी च द्वीपसागराः। पृथुमानाः स्थिराः सर्वे शम्भोश्वाऽथ समुद्भवः ? ॥ २६ ॥ मेरुश्च मन्दरश्चैव तृतीयो गन्धमादनः । हिमवान् हेमकूटश्च निषधो नील एव च ॥ २७ ॥ श्वेतश्च शङ्गवांश्चैव जाता अन्ये कुलाचलाः। तदाश्रित्य वना ख्याता वनोपवनकाननाः ॥ २८ ॥ माहेन्द्रो मलयश्चैव सह्यो विन्ध्यस्तथैव च । हेमन्तः पारिजातश्च श्रीशैलश्च तथार्बुदः ॥ २९ ॥ उदयाद्रिस्त्रिकूटश्च द्वीपशैलो विन्ध्याचलः । मैनाको भूपरीषश्व कंकतः प्रान्तकोद्भवः ॥ ३० ॥ पते शम्भूद्भवाः सृष्टयां कुलशैलाश्च चलाः स्थिराः । विष्णुना रचिता होते संस्थिताः कुलशैलकाः ॥ ३१ ॥