________________
(४) पातालद्वीपार्णवसूत्रणं (सूचन) चतुर्थ सूत्रम् ।।
अपराजित उवाच
काचिच्छम्भून्द्रवा सृष्टिः काचिदेवांशसम्भवा । काचित्सृष्टिसमुद्भता काचित्तवरदानतः ॥ १॥ केचिच्छम्भूद्भवा वर्णा वनादीनां व चोदयः।
निशासृष्टयुद्भवाः केचिद् वनोपवनकाननम् ॥२॥ विश्वकर्मोवाच
शम्भुजा भूधरा लोकाः पातालतलवासिनः । तथै(३)व सागरद्वीपाः शम्भुना रचिताः पुरा ॥३॥ पाताल: सप्तधा त्वेवं ब्रह्मभागव्यवस्थितः। सप्तद्वीपाः समुद्राश्च आख्याता विष्णुलम्भवाः ॥४॥ सप्तो लोकाश्च ख्याता रुद्रभागसमुद्भवाः । स्वर्गश्च मर्त्यपातालौ स्वर्गाणां त्वेकविंशतिः ॥५॥ पाताल: स्वर्ग आख्यातो मत्यो द्वीपार्णवात्मकः । स्वर्गश्च लोक आख्यातस्त्रैलोक्यं नाम प्रोच्यते ॥ ६॥ महामेादयः ख्याताः शम्भुना रचिताः किल । तेषामनुक्रमश्चात्र कथ्यते त्वपराजित ॥ ७ ॥ ब्रह्माण्डान्ते तु या पृथ्वी योजनैः शतकोटिभिः । निवसन्स्यन्तरे लोका भुवनानि निवासिनाम् ॥ ८॥ सरितश्च समुद्राश्च शैलाश्चैवं प्रकीर्तिताः । तडागा विविधास्तत्र तीर्थश्च धर्मकीर्तनः ॥९॥ पातालान्ते च या पृथ्वी योजनैदेशकोटिभिः । तस्या अग्रं सहस्राणामेकोनविंशति स्तथा ॥ १० ॥ देवाग्निगुरुपूजा च धर्मतीर्थमहोत्सवः । नदीसमुद्रदेवाश्च तीर्थादिपुण्यनिर्मला; ? ॥ ११॥ पातालभूधरा लोकास्तीर्थाणि पुण्यसागराः । संस्थिताः कर्मयोगेन पात्रे पात्रमिवापरम् ॥ १२ ॥ अतलो वितलश्चैव सुतलो नितलस्तथा । तलातलश्च विज्ञेयः ? (पाताल:) सप्तमोऽथ रसातलः ॥ १३ ॥ पातालाः सप्तधा ख्याताः पात्रे पात्रभिवापरम् । अविरचित विना शास्त्रे सृष्टिकालसमुद्भवाः ॥ १४ ॥ आदिपीठोद्भवं मानं द्वि ? सहस्त्रैर्लक्षयोजनैः। तलसङ्ख्यान्तरे विद्यात् पाताले सप्तधोच्छूिते ॥ १५ ॥