________________
ब्रह्माण्डोत्पत्तिर्नाम तृतीयं सूत्रम् ॥ निराकारादकारश्च अकारादम्भउद्भवः । अम्भसो रूपमाख्यातमम्बुदो रूक्षसुदूर्घत: ? ॥१५॥ अव्यक्ताद् व्यक्तमापन्नमवणे वर्णतां विदुः । व्यक्ताख्यं वर्णरूपं च फेनस्थानसमुत्थितम् ॥ १६ ॥ फेनवणे निबद्धं च झण्डके रूपमाश्रितम् । शनैः शनैः प्रवर्द्धन्ते लोलकाकाररूपिणः ॥ १७ ॥ वद्धेद्धिः पुनस्त्वेवं शनैश्चापि महोद्भवः।। महोद्भवो महावृद्धिः शनैश्चापि विवर्द्धते ॥ १८ ॥ क्रमसंवर्धनास्ववं विकाशं प्राप सर्वथा ?।। वर्धते च महाभावब्रह्माण्डं पृथुतां गतम् ॥ १९ ॥ अण्डव्यासपृथुमान योजनैः शतकोटिभिः । सुनिष्पन्नाण्डक यातं विकाशं वै द्विधा स्थितम् ॥ २० ॥ अर्धस्योर्वे तथाकाशमर्धस्याधस्तु मेदिनी । तन्मध्ये वै समस्तं च येषां शम्भुकोद्भवात् ? ॥ २१ ॥ स्वर्गलोकार्णवद्वीपा: शैला: शम्भुसमुद्भवाः । वनोपवनकाननं यथा रचितसम्भवम् ॥ २२ ॥ महामेरूद्भवमध्ये रचितं शम्भुकोद्भवम् । तस्योचे तु परं देवं संसारसृष्टिकारणम् ॥ २३ ॥ एकविंशतिस्वर्गाश्च मेरुव्यङ्गसमुद्भवाः ? । शम्भूद्भवाः क्रमेणैव पात्रे पात्रमिवापरम् ॥ २४ ॥ पातालं सप्तधा ख्यातं सप्तद्वीपा वसुन्धरा । सप्तलोकास्तथा चोर्चे स्वर्गाणां त्वेकविंशतिः ॥ २५ ॥ तत: सरांसि प्रतिमा जलस्य तु यानिकाः । पुष्पावाटी प्रकारो शाला द्विनयमुपवनं वेदिकान्त ध्वजा ? ॥२६॥ शालकल्पद्रमाणां परिवर्ति वनान्तदूपहम्या? । वली च पातालस्फटिकोपेतं वृसुरमुनिसुरा पीठिकार्गस्वर्गभूः ? ॥ २७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
ब्रह्माण्डोत्पत्त्यधिकारो नाम तृतीयं सूत्रम् ॥