________________
(३) ब्रह्माण्डोत्पत्तिाम तृतीयं सूत्रम् ॥
विश्वकर्मोवाच
शणु वत्स प्रयत्नेन यत्यया परिपृच्छितम् । कथयामि न सन्देहस्तव भ्रान्तिहरं च तत् ॥१॥ पूर्व ब्रह्माण्डमुत्पन्न संसाराधारकं च तत् । ततस्तस्मिन् समस्तं च जगत्स्थावरजङ्गमम् ॥ २ ॥ आद्योद्भवसृष्टिसूत्रं (स्तत्र) ब्रह्माण्डादिकटोद्भवम् ? । तदनुक्रमयुक्ती च कथयामि च साम्प्रतम् ॥ ३॥ नैव भूर्वायुराकाशं नैव चन्द्रार्कतारकम् । देवासुरमनुष्याणां नोत्पत्ति प्रलये विदुः ॥ ४॥ न पृथ्वी सागरा द्वीपा: शैला मेर्वादयस्तथा । भूतग्रामः समस्त्वेवं स्वेदाण्डोद्भिजरायुजाः ॥५॥ अन्ये च बहवो जीवा: कीटसर्पपतत्रिणः चतुरशीति लक्षाणि जीवयोनिरनेकधा ॥ ६॥ सष्टयनन्तरे सम्भूताः सर्वे जीवानुरूपकाः । सृष्टिस्तत्र यथान्यायं कथ्यते च यथाक्रमम् ॥ ७ ॥ कल्पान्तसम्भवा सष्टिः संसारसष्टिसंशिता । मन्वंतरमनुक्रान्तं युगान्तं चैव यादृशम् ॥ ८॥ वर्षान्ते भावरूपाश्च ऋत्वन्ते तामसोद्भवाः । पक्षान्ते च सिताः कृष्णा दिनान्ते शर्वरी यथा ॥९॥ एतद् दृष्ट्वा विशेषेण कल्पान्त एवमुद्भवः ।
कल्पे कल्पे पुनः सृष्टिजगत्स्थावरजङ्गमम् ॥ १० ॥ अपराजित उवाच
आदिसृष्टयुद्भवो देव ब्रह्माण्डादिसमुद्भवः । ब्रह्माण्डं कथमुत्पन्नं कथं च द्वीपशैलयोः ॥ ११ ॥ ब्रह्मा विष्णुः शशी सूर्य इन्द्रः स्कन्दो हुताशनः । नैव भूर्वायुराकाशं न देवासुरमानुषाः ॥ १२ ॥ वेदोद्भवा च या सृष्टिः कर्म चैव सनातनम् ।
अस्माकं भक्तियुक्तानां कथयस्व परेश्वर ॥ १३ ॥ विश्वकर्मोवाच
अनादेरादिसंभूतादन्धकारोद्भवं तमः। आदौ तथान्धतमसं निराधार निरन्तरम् ॥ १४ ॥