________________
१६
अपराजित पृच्छा
तुम्बर्नारदचैव नटेशः कात्यकोद्भवः । आसूर्याश्च समुत्पन्नाः पञ्चैते सुरसंभ्रमाः ॥ १५ ॥ मन्मथः पौरुषं लोभो मोहः क्रोधश्च पञ्चमः । विद्याधरीसमुत्पन्नाः पञ्चैते वीरविक्रमाः ॥ १६ ॥ भैरवः क्षेत्रपालश्च गणो वै दूतसम्भवः । वैदेवीजाश्च चत्वारः सदा पूज्याश्च मानुषैः ॥ १७ ॥
उत्पन्ना नागराजेन्द्या वासुक्याद्या उरङ्गमाः (विहङ्गाः पन्नगास्तथा ) । वासुकी पन्नगः प्रोको विहङ्गा विनतात्मजाः ॥ १८ ॥
नरेन्द्रीभ्यः समुत्पन्ना विख्याता वै नरोत्तमाः । तदनुक्रमयुक्ती च कथयामि समासतः ॥ १९ ॥ प्रथमो ब्राह्मणो जातः क्षत्रियस्तु द्वितीयकः । वैश्यो जातस्तृतीयो वै शुद्रश्चैव चतुर्थकः ॥ २० ॥ अष्टाशीति सहस्राणि विप्रगोत्राणि वै विदुः ।
त्रिंशय क्षत्रियाणां कुलीनानां तथैव च ॥ २१ ॥ चतुर्विंशति वैश्यानां शूद्राणां नैकधा तथा । एते वंशाः समाख्याता यथाकल्पं भवन्ति ते ॥ २२ ॥
कल्पान्ते च विशीर्यन्ते ? (विनश्यन्ति) सर्वे रूपसमुद्भवाः । समुद्भवन्ति ते सर्वे कल्पादौ च पुनः पुनः ॥ २३ ॥
इति सूत्रसन्नगुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचा यक्ता पराजित पृच्छायामष्टाधिकारो नाम षष्ठं सूत्रम् ॥