________________
(२) सूत्रलक्षणं द्वितीयं सूत्रम् ॥
अपराजित उवाच
सृष्टिकौतूहलं देव उत्पत्तिर्भूतधातृभिः । ब्रह्माण्डं च कथं प्रोक्तं केन सड्या प्रमाणतः ॥ १॥ कया युक्त्या समुत्पन्नं वर्द्धितं केन हेतुना । विकास: केन संजात: कैराधारैश्च धार्यते ॥२॥ धराया: कोचदाधारा आकाशस्य कथं विदुः । के च मेर्वादयः शैला: कैराधारः कुलाचलाः ॥३॥ किं धरित्र्याः प्रमाणं च सप्तद्वीपा वसुन्धरा । समुद्राश्च कथं प्रोक्ता वनोपधनकाननम् ॥ ४॥ द्वीपद्वीपेषु क्षेत्राणां प्रमाणानि कथं विदुः। जम्बूद्वीपस्य मध्ये तु नवक्षेत्राणि कानि च ॥ ५ ॥ उत्तर भारतं क्षेत्र तत्प्रमाणं च ख्यातु मे। स्वेदाण्डोर्ध्वजरायुजो भूतग्रामः कथंचन ॥ ६॥ को धर्मः कुत्र क्षेत्रेषु रम्यकादौ वदेद्भवान् ।। ये देशा भारते क्षेत्रे आश्रमा ग्रामसङ्ख्यया ॥ ७ ॥ को धर्मः कुत्र देशे तु भरतक्षेत्रमध्यतः । कृतत्रेताद्वापरे तु चतुर्थे वा कलौ युगे॥ ८॥ .. युगान्ते च कथं धर्मो युगरूपानुदेवताः। धर्मः कृतयुगादीनां द्विजदेवयज्ञादयः ॥९॥ कश्च धर्मः कथं कीर्तिर्द्विजदेवालयादितः। आलय; सर्वसत्त्वानां वेश्महर्यप्रसाधनम् ॥ १०॥ वास्तूत्पत्तिः कथं तात देवादेश्च निघण्टुकम् । एकपादादिकं वास्तु यावत्पदसहस्रकम् ॥ ११ ॥ मोपमर्मवंशाश्च रेखाषट्कसंध्यादिकम् । वज्रत्रिशूललाङ्गलं हस्तसूत्रादिपद्मकम् ॥ १२॥ बलिकर्मविधि ब्रूहि वास्तुपादनिवासिताम् । विद्यात् स्थानानि सर्चाणि प्रासादभवनादितः ॥ १३ ॥ हस्तलक्षणमानं च देवतापादसंभवम् । मानोन्मानप्रमाणं च सर्वकर्मादिकारणम् ॥ १४॥ .