________________
अपराजितपृच्छा सूत्रधारो हि जानीयाद्वर्णकं रुतमेव च । भूपरीक्षां शल्योद्धारं कीलिकारोपणादिकम् ॥ १५ ॥ वर्णगन्धरसास्वादप्लवादिभूमिलक्षणम् । दीपवर्तिप्राग्विशुद्धिं दिशां च साधनादिकम् ॥ १६ ॥ प्रस्तारक्रमसूत्रं च राजधान्याः पुरादिकम् । पुरग्रामनगराध खेट कूटं च कर्वटम् ॥ १७ ॥ पुरप्राकारपरिखापतोलीमार्गगोपुरम् । वेश्मानि राजवेश्मानि सभां शालां गजाश्वयोः ॥ १८ ॥ सूत्रपातविधि ज्ञात्वाऽऽयव्ययादेश्च लक्षणम् । ज्योतिषे केवलं ज्ञानं स्त्रीपुरुषादिलक्षणम् ॥ १९ ॥ प्रासादप्रतिमालिङ्गजगतीपीठमण्डपान् । प्रासादान् विविधाकारान् वैराज्यकुलसम्भवान् ॥ २० ॥ अष्टजातिकमच्छन्दो देशानुरूपसूत्रणे । रेखाश्च विविधास्तत्र प्रासादे शिखरे मताः ॥ २१ ॥ घण्टाकलशध्वजानां प्रमाणं सृष्टिसम्भवम् । प्रतिष्ठा सप्तधा ख्याता कूर्माद्या च ध्वजान्तगा ॥ २२ ॥ प्रासादे गर्भद्वारे च देवतानामनुक्रमः । द्वारदृष्टिपदस्थानं दिग्द्वारं च कथंचन ॥ २३ ॥ द्वारलक्षणं प्रोक्तभ्यं दारुकर्मरथारहे(स्मके)। सिंहकर्णकपोतालीनि!हच्छाधकं लुमम् ॥ २४ ॥ वितानानि विचित्राणि क्षिप्तान्युरिक्षप्तकानि च । पद्मकं नाभिच्छन्दं च सभामार्ग मन्दारकम् ॥ २५॥ प्रतिमालक्ष्मस्थानानि दृष्टिस्थानादिकं तथा। भृत्यचारप्रभेदाश्च स्वस्वयानादिकं तथा ॥ २६ ॥ तालप्रस्तारगीताचं वादिौः स्यान्चतुर्विधम् । चित्रपट्टप्रभेदाश्च रेखाचित्रसमुद्भवाः ॥ २७ ॥ वर्णरूपरसवृत्तिभावानुभावकोद्भवाः । शुद्धाबद्धानि चित्राणि पत्राणि पञ्च एव च ॥ २८ ॥ शालभञ्जी प्रतीचारी लास्यताण्डवकादिकम् । भूषणानि विचित्राणि देवासुरनृणां किल ॥ २९ ॥ छत्रं सिंहासनं शय्यां यानानि चायुधानि च । वेदिकानामलडारं रत्नधातूद्भवं तथा ॥ ३० ॥