________________
अपराजितपृच्छा हंसतुल्यं समारूढं शिरोद्धारद्वयान्वितम् । तत्रस्थं सुखमासीनं विश्वकर्ममहौजसम् ॥ ४५ ॥ वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदम् । सर्व विज्ञानवन्तं च सर्वज्ञ मानसागरम् ॥ ४६ ।। चतुर्भुजं ब्रह्मतेजस्तप्तकाञ्चनसन्निभम् । दीप्तकुण्डलशोभाढ्यं त्रिनेत्रं चन्द्रशेखरम् ॥ ४७ ॥ अक्षसूत्रं वामहस्ते दक्षिणे तु कमण्डलुम् । पुस्तकं वामहस्तोत्रे जपमाल्यां तु दक्षिणे ॥ ४८ ॥ ज्ञानदं मोक्षदं चैव विश्वहा सृष्टिकारकम् । तिष्ठन्तं च विनोदेन ह्यनेकैश्च कुतूहलैः ।। ४९ ॥ विश्वकृद्विश्वकर्माणं त्वष्टारं देववर्धकिम् । भूर्भुवर्भुवनेशस्य स्वर्गदेवस्य विश्रुतम् ॥ ५० ॥ पुनरुच्चार्य नामाथ प्रभासवसुनन्दनम् । दण्डवत् प्रणतो भूत्वा जानुभ्यां धरणीतले ॥ ५१ ॥ भक्तिमान् भो महाभूत पृच्छति त्वपराजितः। समचित्तं च संबोध्य ह्यशानां ज्ञानदो भवान् ॥ ५२ ।। सूत्रशास्त्रार्णवमध्यादुद्धृतं सारवीजकम् । सूक्ष्मात्सूक्ष्मतरं गुह्यं मध्यादुद्धरतो यथा ॥ ५३॥ . निशाकरे चास्तमिते उदिते च दिवाकरे । सूत्रार्थस्य प्रवक्तुर्वै ज्ञानं चक्षुः प्रकाशनम् ५४ ॥ यद्यत्पृच्छामि तदहं सूत्रशास्त्रप्रकाशकम् ।
देहि ज्ञान प्रसादेन तारा तिमिरहरं यथा ॥ ५५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रो(प्रयो)क्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
गन्धमादनाधिकारो नाम प्रथम सूत्रम् ।।