________________
गन्धमादनो नाम प्रथमं सूत्रम् ॥
अनेकधा वने तत्र चन्दनागरुपादपाः । पुन्नागनागबकुला विविधा वृक्षजातयः ॥ २९ ॥ जातीचम्पकमन्दारा नीलरतोत्पलं तथा । कोलकलवङ्गादि कर्पूरोद्गमपादपाः ॥ ३० ॥ अतीवफलसंयुक्ता लताभिर्विविधाः कृताः । रक्तचन्दनवृक्षाश्च प्रभूततृणपादपाः ॥ ३१ ॥ अगस्त्याम्बुरुहाशोकबिल्ववृक्षाः सचन्दनाः । नागकेसरपनसा द्राक्षाखर्जुरदाडिमा: ॥ ३२॥ शालतालतमालाश्च हिन्तालमधुपादपाः । कर्णिकारद्रुमा रम्या नानापुष्पफलान्विताः ॥ ३३ ॥ चन्द्रकान्तकलाभूमिः कचिन्मरकतप्रभा । प्रवालकसमारम्या क्वचित्स्फटिकनिर्मला ॥३४॥ कर्पूरकुङ्कमसमपुष्पप्रकरसंकुला। सधूपामोदबहुला कुङ्कमैरिव सिञ्चिता ॥ ३५ ॥ इत्येवं भवनं दिव्यं दशयोजनविस्तरम् । गवाक्षचन्द्रिकोपेतं वातायनसमन्वितम् ॥ ३६॥ अभ्रलिहैयश्चित्रैश्चामरैश्च विभूषितम् । घण्टाकोटिनिनादाढ्यनैकवादित्रसंकुलम् ॥ ३७ ॥ किडिणीरावणोपेतमर्धचन्द्रविभूषितम् । पितानसाहस्रयुतं चित्रपट्टादिशोभितम् ॥ ३८॥ प्रवेशनिर्गमोपेतं नरनारीजनाकुलम् । महामुरजशब्दैश्च गीतैश्च विविधैः पुनः ॥ ३९ ॥ मनोहरं गृहं दिव्यं देवानामपि दुर्लभम् । लास्यहास्यैश्च विविधाः क्रीडन्ते रुद्रकन्यकाः ॥ ४० ॥ देवकन्याश्च विविधा ऋषिनार्यस्तथोत्तमाः । सहिता नृत्यमानाश्च मङ्गलैः कौतुकैः सह ॥ ४१ ।। त्रिसङ्गीतैश्च विविधैः प्रेक्षणीयं गणेश्वरैः। गणा किलकिलायन्ति प्रवल्गन्ति मुहुर्मुहुः ॥ ४२ ॥ इदं च भुवनं नित्यं शुद्धस्फटिकसन्निभम् । बज्रवैडूर्यखचितं रस्नप्राकारशोभितम् ॥ ४३ ॥ तोरणैर्दिव्यमाख्यातं पूर्वापरयाम्योत्तरम् । तन्मध्ये दिव्यपर्यई सिंहव्यालैरलङ्कतम् ॥ ४४ ॥