________________
अपराजितपृच्छा दष्ट्रिगजेन्द्रवनजाः सिंहव्याघ्रगुहास्तथा । गण्डभलुकशार्दूलाः शूकरा महिषा मृगाः ॥१३॥ शुककोकिलकुलायै रम्यं शीशि(चीचि)रवोद्भवैः । वदन्त्येतते[रे?]व गिरा तपोवननदीस्वराः ॥ १४ ॥ अगस्त्यः कश्यपश्चैव याज्ञवल्क्योऽथ कौशिकः। भारद्वाजो वैश्रवणो वसिष्ठो नारदस्तथा ॥१५॥ पाराशरो जमदग्निमार्कण्डेयानको तथा। मरीचिौतमोऽग्निश्च भृगुर्वै एकशृङ्गकः ॥ १६ ॥ कपिल: पुलमाहेन्द्रौ पुलस्त्यः पुलहः क्रतुः । वसुदेवश्च दुर्वासा: कनक शौनकस्तथा ॥ १७ ॥ भार्गवोऽथ सुराचायों घङ्गिरा मनुजल्मुकः । हरितोत्सङ्गनागेन्द्रा देवन्यः किंशुकस्तथा ॥ १८॥ पनकः पावकः संपदङ्ग ईक्षण एव च । विश्वामित्रश्च जनको व्यासवाल्मीकिनौ तथा ॥ १९ ॥ मैत्रेयो धर्मकश्चैव प्रचेता वैजयन्तकः । शान्तः समुद्रकश्चैव वैशम्पायनपाचकौ ॥ २० ॥ जीवध्वनो बाल्यषष्टिः शम्भूश्चर्णक एव च । शुकात्रियमकाश्चैव विशाला ब्रह्मतेजसा ॥ २१ ॥ शान्तो ऽथ विद्मश्चैव बहुधान्यो वो(भ?)व्यस्तथा । गर्गोऽथ लम्पटः ख्यातो नीलश्च सत्य एव च ॥ २२ ॥ मृगाक्षो वृषचक्रश्च शङ्खवर्णोऽथ लोमशः । चन्द्रभानुर्वज्रसूचिः किरातश्चाथ सम्भ्रमः ॥ २३ ॥ सुपर्णः श्यामतुङ्गश्च हेमकान्तिश्च देवलः । शिखिध्वजो महाकान्तिः शिवारमा चन्द्रशेखरः ।। २४ ॥ जयश्च विजयश्चैव सिद्धार्थश्चापराजितः। अष्टाशीतिः समाख्याता ऋषयो ब्रह्मतेजसः ॥ २५ ॥ अधःशीषोर्ध्वपादाश्च वर्षाणां शतसङ्ख्यया । हृष्टास्तुष्टास्तु सर्वेषु ज्ञानध्यानपरायणाः ॥ २६ ॥ केचित्कन्दफलाहाराः पञ्चगव्योपजीविताः। केचिद् विस्तृतपथ्याश्च केचिन्नक्षत्रभोजनाः ॥ २७ ॥ इत्येते ऋषयः सर्वे पृष्ठे चै गन्धमादने । भर्भुवःस्व तश्चैव वने दिव्यावतोत्तमे ॥२८॥