________________
युक्तिप्रकाशः
- युक्तिप्रकाशः प्रणम्य व्यक्तभक्त्या श्री-वर्धमानक्रमाम्बुजम् ॥ आत्मार्थ तन्यते युक्ति-प्रकाशो जैनमण्डनम् ॥१॥
मू. भा.-प्रगट भक्तिथी श्री वर्धमानप्रभुना चरणकमलने नमीने पोतामाटे जैनोने मंडनभूतएवो युक्तिप्रकाश विस्तारुंछु. प्रणाम्य श्रीमहावीरं। नम्राखण्डलमण्डलम् ॥कुर्वे युक्तिप्रकाशस्य । खोपज्ञां वृत्तिमादरात् ॥१॥
टी.-प्रणत्येति, श्रीवर्धमानः श्रीमहावीरनामाऽस्यामवसर्पिण्या अन्तिमजिन स्तस्य क्रम्बुजं पादपप्रणत्य नत्वा युक्तिप्रकाशनामा ग्रन्थो मया तन्यत इति तावदन्वयः। तत्र व्यक्तभत्त्येति करणपदं वीरप्रणाम विशेषणं, तथा च व्यक्तभत्तयन्वितप्रणामस्य बलवन्मंगलभूतत्वेन प्रत्यूहव्यूहोपशमनार्थमादावुपन्यासः। ननु बहूनां युक्तिप्रका शकशास्त्राणां विद्यमानत्वेन किं युक्तिप्रकाशविस्तरकरणादरेणेत्यत आह आत्मार्थ स्वार्थ पूर्वाभ्यस्तान्येव शास्त्राण्य तत्करणा दरेण. विशेषात् स्मारितानि संति, स्वसंस्कारोबोधलक्षणं स्वार्थ साधयेयुरित्यर्थः । नन्वेतच्छास्त्र अध्ययनांगीकाराभ्यां केऽधिकारिण इत्याह-किं भूतो युक्तिप्रकाशः जैनमण्डनं जिनशासनानुयायियुक्तिनामेवात्र प्रतिपादितत्वेन जैनानामेवाध्ययनांगीकाराभ्यामधिकारित्वात् मण्डनमिव मण्डनं, यद्यप्येतदध्ययनमात्रे शाक्यादयोऽधिकारिणो भवत्येव तथाप्यत्र तदुच्छेदकयुक्तीनां विद्यमानत्वेनाऽनधिकारिण एव शाक्यादय इत्यर्थादापन्नं । ननु श्रीमड़ियों युक्तिप्रकाशविस्तरः क्रियते स किं पूर्व विद्यते नवेति,