________________
लिझम्क्षणम् ।] द्वितीयोऽध्यायः । अष्टाष्टार्धनवांशकैर्विभजिते विस्तारमंशद्वयं
श्रेष्ठं मध्यममंशकैस्त्रिभिरतश्चाधांशवृद्धयोत्तरे । भक्ते कन्यकमंशकैस्त्रिभिरतो भक्ते च भागद्वयं विष्कम्भं पुनरेवमेव नवधा संकल्पयेद् वा क्रमात् ॥१॥ रागिदाराक्षनिहतं कृत्वा विष्कम्भमार्जितम् ॥७२॥ अनूननेत्रवीभक्तं परिणाहं समीपगम् । विष्कम्भमानात् त्रिगुणं निधाय
विष्कम्भवस्वंशकतोऽष्टमांशम् । विक्षिप्य वा नाहविधिस्तदेक
विंशद्विभागो निहितोऽथवा स्यात् ।। ७३ ।। सर्वतोभद्रकं लिङ्गं वर्धमानं शिवाधिकम् ॥ ७४ ॥ स्वस्तिकं च चतुर्धा स्यात् तल्लक्ष्म पृथगुच्यते। विप्राणां सर्वतोभद्रं भूभुजां वर्धमानकम् ॥ ७५ ॥ शिवाधिकं विशामिष्टं शूद्राणां स्वस्तिकं मतम् । प्रतिलोमानुलोमादिवर्णानामपि स्वस्तिकम् ॥ ७६ ।। यथोचितातानवितानयुक्तां
शिलां यथोक्तक्रमतोऽभिभज्य । मूलं युगानं विदधीत मध्य
मष्टाश्रकं वृत्तमयं परं च ॥ ७७ ॥ तुर्यश्रे सुसमे प्रसार्य भुजसूत्रं कर्णसूत्राध्वना तस्यान्ताहितलक्ष्मसु प्रतिदिशं द्वे वे भुजासूत्रके। १. 'अन्यनेत्रविभ' ग. पाठः.