________________
मनुष्यालयविधिः] एकत्रिंशोऽध्यायः।
२१३ योनयोऽग्न्यादिकोणेषु क्रमात् सिंही वृषो गजः। ध्वजवेति मनुष्याणां विहितं गृहकर्मणि ॥ ३० । अथवा कृत्वा दिङ्नवनागवर्गपदभिन्न क्षेत्रकेऽन्तर्गतै
रष्टयङ्कान्धिपर्विधातृपदयुक्तं प्राङ्कणं मध्यतः। शालाः पतियुगार्यकादिकजुषस्तहाह्यतस्तद्वहिगोष्ठौलूखलवेश्मकादिविलसत्पङ्क्त्यावृतं कल्पेयत्
[॥३१॥ पादुकानां बहिर्भागमङ्कणं कथ्यतेऽत्र हि। अङ्कणं ध्वजयोनिः स्यान्मुखायामादिसंयुतम् ॥ ३२ ॥ ध्वजः सर्वत्र सम्पूज्य इति शास्त्रनिदर्शनम् । तत्त्वार्केन्दुवसुबारवेश्मकृत्यश्विसागराः ॥ ३३ ।। अमुल्यः करतश्चापि द्वित्रिसयमथापिवा ।
अजिरस्यायतं तारादधिकं प्रकरोतु वा ॥ ३४ ॥ (गुणविस्तारणा स चादद्वि ?)
गुणविस्तारतश्चापि दृश्यते त्ववनाङ्कणेदि(?)। वेधस्तद्गृहमध्यानां गोत्रनाशकरः स्मृतः॥ ३५ ॥ प्रादक्षिण्यात् स्वया गत्या महादिग्गतवेश्मसु । परिहर्तव्य एवायं बुद्धिकौशलशालिभिः ।। ३६ ॥ कर्णसूत्रयुतिमध्ये न भवेत् कर्णवेश्मनाम् । अशुभाय भवत्येषा परिहार्या स्वदीर्घतः ॥ ३७ ।।
१. 'कं नाहिभागं तु अब ख. पाठः.