________________
बिम्बादिसाधनविधिः।]..: प्रथमोऽध्यायः ।
अप्रसादोऽथ दिग्दाहपरिवेषाः शिवारुतम् । चन्द्रसूर्योपरागोल्काभूकम्पेन्द्रधनूंषि च ॥ १६॥ वृक्षध्वजायुधच्छत्रयानभङ्गा विनिन्दिताः। चक्रिक्षपणनमाश्च मुण्डितामङ्गलाङ्गनाः॥१७॥ विप्रास्तपस्विनो व्रात्या यतयो वामनादयः । विकला जालिकाः सूनाः पाषण्डा दण्डपाणयः ॥१८॥ कापालिकाः काष्ठधरा मुक्तकेशाश्च दुःखिनः । आर्द्रवस्त्राश्च निन्द्याः स्युर्दृष्टाः प्रतिमुखागताः॥१९॥ अहुतेषु निमित्तेषु मासं नीत्वा शुभे ब्रजेत् । शिलामयं मणिमयं लौहं दारुमयं तथा ॥२०॥ मृन्मयं मिश्रकं लेख्यं बिम्बं सप्तविधं स्मृतम् । तेषामभिमतं द्रव्यं शिलाद्यं बहुशिक्षितम् ॥ २१ ॥ गत्वान्विष्यानयेत् तत्तदुचितं लक्षणान्वितम् । ब्राह्मणक्षत्रविट्छूद्रशिलाः स्युर्धवलारुणाः ॥२२॥ पीताः कृष्णाश्च लिङ्गानि कुर्यात् ताभिर्यथाक्रमम्। सर्वेषामथवा सर्वाः शिलाः स्युरिति केचन ॥ २३ ॥ मुक्तिं जयं धनं धान्यं दद्युः शुक्लादिकाः शिलाः । उद्धृत्य संस्थिता तत्र (याह ? यां दि)शं वीक्षते शिला ॥ तामेव प्रतिमां गेहे पश्यन्ती स्थापयेद् दिशम् । बिम्बार्थ पुंशिला ग्राह्या पीठार्थ स्त्रीशिला तथा॥ २५॥ नपुंसकशिला पादशिलार्थमखिले मता। यथोचिंता शिलां दृष्ट्वा बलिं दत्त्वा यथाविधि ॥ २६ ॥