________________
प्रतिष्ठाविधिः] अष्टाविंशोऽध्यायः ।
दैवार्षकाणां बाणानां लिङ्गानां च स्वयम्भुवाम् । प्रासादरूपं पीठं वा यथेष्टं कारयेद् बुधः ॥ ७९ ॥ इति शिल्परने उत्तरभागे पीठादिलक्षणं नाम
__सप्तविंशोऽध्यायः ।। अथाष्टाविंशोऽध्यायः।
अथ प्रतिष्ठाविधिः। कुर्यात् प्रतिष्ठा सुमुहूर्तलने
देवस्य मन्त्री सुसमाहितात्मा । बीजापुरारोपणमुख्यकर्म
जालानि कृत्वोचितमूर्तिपान्वितः ॥ १ ॥ सर्वदिङ्मुखसद्धेषु सर्वदेवेषु सर्वदा । अदित्युदित्योः कर्तव्यं मङ्गलाङ्करमण्डपम् ॥ २॥ संवृतं पश्चिमहारं ध्वजयोनिगतं शुभम् । तुर्यश्रं वायतानं वा वितानपरिशोभितम् ॥ ३ ॥ पात्राणि वापविहितानि पृथग द्विषड् वा
स्युः पालिकाश्च घटिकाश्च शरावकाश्च । तस्वाष्टिभानुभिरिह प्रतिमाङ्गुलैस्त
दुत्सेधक्लप्तिरथ वाष्टिचतुर्दशाकैः ॥ ४ ॥ तत्त्वांशकोनमुदितोच्छ्यमत्र कृत्वा ।
षोढा द्वयेन वदने क्रमशः परांशः। तत्पीठ(दण्डगल)सन्धिगलेषु कुर्याद्
दैयं पुरोविरहितेन च पीठसन्धौ ॥ ५ ॥ अङ्घयनमंशम(थ ? धि)पीठ(गृ? मि)हाधिदण्डं
चैके समुच्छ्रयमुशन्त्यपरेऽर्धवृद्धिम् ।