________________
१८४
शिरूपरले
[उत्स्थामा शेषमानं तु नीचादि पीठोच्चं द्राविडे मतम् । अथ वेसरलिङ्गस्य यष्टांशे परिणाहके ॥ १३ ॥ मुख्यं हि तत्समं व्यासं जगत्यंशैस्तथा समम् । विष्णुतुल्योच्छ्यं तत् स्याच्च चतुर्थांशाधिकं तु वा ।।१४॥ सर्वेषामपि लिङ्गोच्चं पीठोच्चादवशेषितम् । पीठमूलस्य विस्ताराद् वसुनन्दादिगंशकैः ।। १५ ॥ हीनः पीठाप्रविस्तारो हीने मध्ये तथोत्तमे। नागरादित्रयं पीठं क्रमेण सुसमाहितम् ॥ १६ ॥ चतुरश्रं च वस्वश्रं वृत्तं चैतत् त्रिधा मतम् । पीठं निष्कललिङ्गानां विज्ञेयं सर्वतः समम् ॥ १७ ॥ आयतं प्रतिमानां स्यात् सकले वार्धचन्द्रकम् । चतुर्दशांशे पीठोच्चे भागात् स्यान्मूलपट्टिका ॥ १८ ॥ पद्मं त्रिभिधृगधांशमनाजं ततो भवेत् । वृत्तं यंशं पुनः पद्ममर्धमर्धेन कम्पकम् ॥ १९ ॥ सार्धयंशेन कप्ठोच्चमधेनोर्ध्वाम्बुजं स्मृतम् । अर्धन कम्पो यंशः स्यात् क्रमेणैवोर्ध्वपट्टिका ॥ २०॥ कम्पाज्यधारिण्यर्धेन स्यादेवं मेरुसुन्दरम् । अष्टादशांशे पीठोच्चे जन्म घंशमिहोदितम् ।। २१ ॥ चतुर्भिर्जगतीं कुर्यात् कुमुदं त्रिभिरेकतः । कम्पं कण्ठमथैकेन स्रक्पाशादब्जमन्ततः ॥ २२ ॥ वृत्तं चतुर्भिस्त्वंशेन पद्ममर्धेन कम्पकम् । त्रिभिः कण्ठं तथांशेन बाजनं त्वथ भागतः ॥ २३ ॥ १. 'तस्य चतु' ग. पाठः.