________________
शिल्परने
उत्तरमागः सौरी चतुरक्षरी - भास्वद्रत्वौघमौलिस्फुरदमृतरुचो रञ्जयच्चारुरेखां - सद्यःसन्तप्तकार्तस्वरकमलजपाभासुरामिः प्रभाभिः। विश्वाकाशावकाशं ज्वलयदशिशिरं धेर्तृ पाशाङ्कशेष्टा
भीतीनां भैङ्गितुङ्गस्तनमवतु जगन्मातुराकं वपुर्वः ॥७३॥
अन्नपूर्णा - दुग्धान्धौ रूप्यवप्रावृतकनकमयदीपवर्ये सुराढ्ये
कल्पद्रूद्यानकेऽधो मणिमयलसिते वित्तपस्याग्रभागे। आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ ____ मन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदेऽनस्य मन्त्रम्
॥ ७४ ॥ अथवा -
रुद्रताण्डवविलोकनलोला ____ भद्रेवक्त्रनयनां भवकान्ताम् । अन्नदाननिरतां जननीं तां
चिन्तयेदुषसि चित्रदुकूलाम् ॥ ७५ ॥ अर्थ सप्त मातरः--
दण्डं कमण्डलुं बिभ्रत्यक्षसूत्रमथाङ्कुशम् । सुवर्णवर्णां ब्रह्माणी कृष्णाजिनधरां भजेत् ।। ७६ ॥ शूलं परश्वधं क्षुद्रदुन्दुभिं नृकरोटिकाम् । बिभ्रतीमभ्रशुभ्राभां स्मरेन्माहेश्वरीमपि ॥ ७७ ॥
१. 'धातृपा', २. 'भागि तु' क. पाठः, ३. 'यी' क. ख. ग. पाठः. ४. 'द', ५. 'त्र' घ. पाठः. ६. 'थ मा' क. ख, ग. पाठ:.