________________
१३८ शिल्परत्ने
उत्तरभागः अथ वनदुर्गा
अरिशङ्खकृपाणखेटबाणान् सधनुश्शूलकतर्जनर्दिधाना । भवतां महिषोत्तमाङ्गसंस्था नेवदूर्वासदृशी श्रियेऽस्तु दुर्गा
[॥ २३ ॥ अपिच,
उदयार्कसमप्रख्यां किरणानेकसङ्कुलाम् । बन्धूकपुष्पस्तबकसिन्दूरसदृशोज्ज्वलाम् ॥ २४ ॥ पीतवस्त्रावृतां देवीं सर्वाभरणभूषिताम् ।। नीलकुश्चितकेशाढ्यां प्रसन्नवदनाम्बुजाम् ॥ २५३ ॥ विचित्ररत्ननिष्ठयूतकुण्डलोद्दयोतिताननाम् । स्वनेत्रकान्तिनिर्धूतकोत्पलविराजिताम् ॥ २६ ॥ अर्धचन्द्राकृतिस्पर्धिललाटतिलकोज्ज्वलाम् । चतुष्टयभुजाक्लप्तशलारीष्टाभयोद्यताम् ॥ २७॥ वलित्रयोर्मिसंभिन्नमध्यराजिविराजिताम् । तैप्तहाटकसंक्लप्तस्तम्भोरुद्वयशोभिताम् ॥ २८ ॥ वृत्तजङ्घा गूढगुल्फां रश्म्यावृतपदाम्बुजाम् । रक्ताम्भोजे समासीनामुद्यत्सूर्यायुतप्रभाम् ॥ २९ ॥
सर्वलोकमयीं देवी दुर्गा महिषमर्दिनीम् ॥ ३०॥ यहा,
हेमप्रख्यामिन्दुखण्डात्तमौलिं
शखारीष्टाभीतिहस्तां त्रिनेत्राम् । हेमाजस्थां पीतवर्णा प्रसन्नां
देवी दुर्गा दिव्यरूपां नमामि ॥ ३१ ॥ . १. 'कपालखे', २. 'वनदू', ३. 'स्त्र', ४. 'ल' घ. पाठः. ५. 'भि' क. ग. पाठः. ६. 'मध्यराजितसं' घ. पाठः. ७. 'अपिच, हे' क. ग. पाठः,