________________
शक्तौ त्वरिता] चतुर्विंशोऽध्यायः ।
१३५ हृल्लेखा-- रक्तप्रायो + गौरां स्मररसविलसद्यौवनारम्भशोभामाताम्राकल्पकनां शशिशकलमिलत्कुन्तलां कान्त
[नेत्राम् । नानालङ्कारकान्तां करयुगलसमाकान्तपाशाङ्कुशाढ्यां
देवीं त्रैलोक्यवन्द्यामभयवरकरां हारिसर्वाङ्गहृद्याम् ॥७॥
अथ वागीश्वरी --- शान्तां शारदनीरदेन्दुबिमलामालेखिनीपुस्तक
व्यासङ्गोधतबाहुमूर्जितवैचोविज्ञानबोधात्मिकाम् । शुभ्राकल्पविभूषितां त्रिनयनां भास्वज्जटाशेखरां
सम्बोधाय सरस्वती भगवतीं वन्दे मनोज्ञाकृतिम् ॥ ८॥
अथ श्री:-- मुक्तागौरैश्चतुर्भिपिपतिभिरथो पुष्करोद्यडटास्यानिर्यद्रत्नाभिषिक्ता करकमललसत्पद्मयुग्माभयेष्टा । नानाकल्पाभिरामा द्रुतकनकनिभा रक्तपढेरुहस्था रम्याङ्गी सुप्रसन्ना वितरतु विपुलां सन्ततं श्रीः श्रियं वः ॥५॥ अपिच - शुभ्रेभद्वयपुष्करेरितघटश्च्योतद्विशुद्धोदकैः
स्नायन्तीमतिहृद्यरूपविभवां नीलोल्लसत्कुन्तलाम् । शुभ्राकल्पविशेषविभ्रमरसामुत्तप्तहेमप्रभां
वन्दे बाहुयुगप्रसक्तकमलां देवीं सरोजासनाम्॥१०॥
अथ त्वरिताभावोझेदवृता सहाभयवरा विस्रस्तनीलालका बिम्पोष्ठी तरुणारुणाब्जचरणा रक्तान्तनेत्रत्रया ।
१. 'महोवि', २. गर्भाभ', ३. 'ल' क. ग. पाठः.