________________
शक्ती मूलदुर्गा ]
चतुर्विंशोऽध्यायः ।
१३३
पूज्या गदा गदाङ्कितमौलिः सगदा सचक्रशङ्खधनुः । पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥ ४७ ॥ श्यामं शाङ्कितकं शार्ङ्गं शार्ङ्गरिदरगदाहस्तम् । श्यामांशुकानुलेपनमाल्यादिं वारुणे यजेत् पत्रे ॥ ४८ ॥ खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् | विकृताम्बरानुलेपत्रजं समभ्यर्चयेदुदक्पत्रे ॥ ४९ ॥ शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् । सितवसनमाल्यभूषं यजैन्महानादमभिसंस्थदले ॥ ५० ॥ शङ्खोक्तचिह्नभूषान् स्वास्त्रादिकधरचतुर्भुजानपरान् । हलमुसलशूलसंज्ञान् यजेन्निशाचरादिकोणेषु ॥ ५१ ॥
इति शिल्परले उत्तरभागे ध्याने वैष्णवप्रकरणं नाम त्रयोविंशोऽध्यायः ॥
तत्र पूर्व मूलदुर्गा
अथ चतुर्विंशोऽध्यायः । अथ शक्तिमार्गः ।
F
-
शङ्खारिचापशरभिन्नकरां त्रिनेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् । सिंहस्थितां ससुरसिद्धनतां च दुर्गा
दूर्वा निभां दुरितवेर्गह ( रा ? रां) नमामि ॥ १ ॥
अथवा
दुर्गे ध्यायतु दुर्गतिप्रशमनी दूर्वादलश्यामलां चन्द्रार्धोज्ज्वलशेखरां त्रिनयनामापीतवासोवसम् ।
१. 'केषु पत्रे' क. ग. पाठः .. २. 'दु' घ. पाठः,